SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ग द hus do s द्वा त्रिं शि का १८/५ Jain Education International करुणा दुःखहानेच्छा 'मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ।।४।। करुणेति । दुःखहानस्य = दुःखपरिहारस्य इच्छा (= दु: खहानेच्छा) करुणा । सा च मोहाद् = अज्ञानादेका । यथा ग्लानयाचिताऽपथ्यवस्तुप्रदानाऽभिलाषलक्षणा । अन्याच दुःख दीनादेर्दर्शनात् (= दुःखितदर्शनात्) तस्य लोकप्रसिद्धाऽऽहार-वस्त्र-शयनाऽऽसनादिप्रदानेन। संवेगाद् = मोक्षाऽभिलाषात् च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु ' सांसारिकदुःखपरित्राणेच्छा छद्मस्थानां अपरा । अपरा पुनः अपरेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वाऽनुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं - " मोहाऽसुखसंवेगाऽन्यहितयुता चैव करुणेति ( षोडशक १३/९) ।।४।। आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥ ५ ॥ आपातेति । मुदिता नाम सन्तुष्टिः । सा चाऽऽद्या = आपातरम्ये = अपथ्याऽऽहारतृप्तिजनितपरिणामाऽसुन्दरसुखकल्पे तत्कालमात्ररमणीये स्व- परगते वैषयिके सुखे । द्वितीया तु सद्धेतौ = शोभनकारणे ऐहिकसुखविशेष एव परिदृष्ट-हित-मिताऽऽहारपरिभोगजनित१. हस्तादर्शे 'महा' इत्यशुद्धः पाठः । २. हस्तादर्शे 'क सा' इत्यशुद्धः त्रुटितश्च पाठः । ३. हस्तादर्शे 'प्रीतिमत्तसु' इत्यशुद्धः पाठः । = For Private & Personal Use Only ।।३११ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy