SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ग द hus do s द्वा त्रिं शि का १८/५ Jain Education International करुणा दुःखहानेच्छा 'मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ।।४।। करुणेति । दुःखहानस्य = दुःखपरिहारस्य इच्छा (= दु: खहानेच्छा) करुणा । सा च मोहाद् = अज्ञानादेका । यथा ग्लानयाचिताऽपथ्यवस्तुप्रदानाऽभिलाषलक्षणा । अन्याच दुःख दीनादेर्दर्शनात् (= दुःखितदर्शनात्) तस्य लोकप्रसिद्धाऽऽहार-वस्त्र-शयनाऽऽसनादिप्रदानेन। संवेगाद् = मोक्षाऽभिलाषात् च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु ' सांसारिकदुःखपरित्राणेच्छा छद्मस्थानां अपरा । अपरा पुनः अपरेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वाऽनुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं - " मोहाऽसुखसंवेगाऽन्यहितयुता चैव करुणेति ( षोडशक १३/९) ।।४।। आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥ ५ ॥ आपातेति । मुदिता नाम सन्तुष्टिः । सा चाऽऽद्या = आपातरम्ये = अपथ्याऽऽहारतृप्तिजनितपरिणामाऽसुन्दरसुखकल्पे तत्कालमात्ररमणीये स्व- परगते वैषयिके सुखे । द्वितीया तु सद्धेतौ = शोभनकारणे ऐहिकसुखविशेष एव परिदृष्ट-हित-मिताऽऽहारपरिभोगजनित१. हस्तादर्शे 'महा' इत्यशुद्धः पाठः । २. हस्तादर्शे 'क सा' इत्यशुद्धः त्रुटितश्च पाठः । ३. हस्तादर्शे 'प्रीतिमत्तसु' इत्यशुद्धः पाठः । = For Private & Personal Use Only ।।३११ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy