SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ योगः पञ्चविधः प्रोक्तो योगमार्गविशारदैः।।१।। अध्यात्ममिति । व्यक्तः ।।१।। औचित्याद् वृत्तयुक्तस्य 'वचनात्तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्म तद्विदो विदुः।।२।। औचित्यादिति । औचित्याद् = उचितप्रवृत्तिलक्षणाद् वृत्तयुक्तस्य = अणुव्रत-महाव्रतसमन्वितस्य वचनात् = जिनाऽऽगमात् तत्त्वचिन्तनं = जीवादिपदार्थसार्थपर्यालोचनं मैत्र्यादिभावैर्मैत्रीकरुणामुदितोपेक्षालक्षणैः२ समन्वितं (?संयुक्तं) = सहितं (=मैत्र्यादिभावसंयुक्तं) अध्यात्म तद्विदो = अध्यात्मज्ञातारो विदुः = जानते ।।२।। सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारि-स्वकीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया ॥३॥ ___ सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण विषयभेदेन चतुर्विधा। उपकारी = स्वोपकारकर्ता, स्वकीयः = अनुपकर्ताऽपि नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाऽऽश्रितः स्वाऽऽश्रितो वा, अखिलाश्च = प्रतिपन्नत्वसम्बन्धनिरपेक्षाः सर्व एव तदाश्रया = तद्विषया (=उपकारिस्व-कीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया) । तदुक्तं- “उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्री" (षोडशक १३/९) इति ।।३।। १. हस्तादर्श 'वचनं' इत्यशुद्धः पाठः । २. हस्तादर्श ...मुदितसमन्वितं' इति त्रुटितः पाठः । १८/३ ॥३१०।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy