SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ FF vodo अर्थविशेषदेशना', तत्र रतिः = श्रवणतदर्थपालनाऽऽसक्तिः (=प्राज्ञप्रज्ञापनारतिः) (४) गुणरागश्च = गुणबहुमानः। (५) शक्याऽऽरम्भः स्वकृतिसाध्यधर्मादिप्रवृत्तिः अपि चाऽस्य हि = चारित्रस्य हि | लिङ्गानि लक्षणानि प्रवदन्ति पूर्वसूरयः ।।३१।। योगप्रवृत्तिरत्र स्यात्परमानन्दसङ्गता । देशसर्वविभेदेन चित्रे सर्वज्ञभाषिते ॥३२॥ योगेति । अत्र देशसर्वविभेदेन चित्रे = नानारूपे चारित्रे सर्वज्ञभाषिते = तीर्थकराभिहिते योगस्य प्रागुक्तलक्षणस्य प्रवृत्तिः (= योगप्रवृत्तिः) स्यात्, परमेण = उत्कृष्टेन आनन्देन सङ्गता व्याप्ता (=परमानन्दसङ्गता)।।३२।। ।। इति दैव-पुरुषकारद्वात्रिंशिका ।।१७।। ॥ अथ योगभेदद्वात्रिंशिका ॥१८॥ अनन्तरं पुरुषकारप्राधान्येन चारित्रप्राप्तौ योगप्रवृत्तिरुक्तेति तद्भेदानेवाऽत्राऽऽह अध्यात्म भावना ध्यानं समता वृत्तिसङ्क्षयः । १. हस्तादर्श '...र्शना' इत्यशुद्धः पाठः । २. हस्तादर्श 'दिस' इत्यशुद्धः पाठः । ३. हस्तादर्श 'चित्र' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भाषितं' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भाववना' इत्यशुद्धः पाठः । ।।३०९।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy