________________
भA4A
'औचित्येन प्रवृत्त्या च सुदृष्टियत्नतोऽधिकात् ।
पल्योपमपृथक्त्वस्य चारित्रं लभते व्ययात् ।।३०।। औचित्येनेति । औचित्येन = न्यायप्रधानत्वेन प्रवृत्त्या च सुदृष्टिः = सम्यग्दृष्टि:२ अधिकाद् = अतिशयितात् (यत्नतः=) यत्नात् = पुरुषकारात् पल्योपमपृथक्त्वस्य चारित्रमोहस्थितिसम्बन्धिनो व्ययात् चारित्रं लभते देशविरत्याख्यम् । सर्वविरत्याख्यं तु सङ्ख्यातेषु सागरोपमेषु निवृत्तेष्विति द्रष्टव्यम् ।।३०।।
मार्गानुसारिता श्रद्धा प्राज्ञप्रज्ञापनारतिः ।
गुणरागश्च लिङ्गानि शक्यारम्भोऽपि चाऽस्य हि ॥३१॥ __मार्गेति । (१) मार्गानुसारिता = अनाभोगेऽपि सदन्धन्यायेन मार्गानुसरणशीलता। यदुक्तं"असातोदयशून्योऽन्धः कान्तारपतितो यथा । गर्तादिपरिहारेण सम्यक् तत्राऽभिगच्छति ।। तथाऽयं भवकान्तारे पापाऽऽदिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः ।। अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्याऽपि वैकल्यं विचित्रत्वेन कर्मणाम् ।।"
(योगबिन्दु ३५४-५५-५६) इति। १७/३१|| (२) श्रद्धा = शुद्धानुष्ठानगता तीव्ररुचिः । (३) प्राज्ञस्य = पण्डितस्य प्रज्ञापना =
१. हस्तादर्श 'उचितेन' इति पाठः । २. हस्तादर्श 'सम्यग्दृष्टिः' पदं द्विरुक्तम् ।
भज
॥३०८।।
Jain Education Intemational
For Priate & Personal Use Only
www.jainelibrary.org