________________
व
रु
ष
का
र
द्वा
त्रिं
शि
का
१७/२९
Jain Education International
उपदेशस्त्विति। उपदेशस्त्वत्र = भिन्नग्रन्थेरुचितप्रवृत्तौ (हेतुः) 'अनेकान्तो जलोत्पत्तौ भूमिसरसभावनिबन्धनायां पवन -खननादिरिवाऽनियतहेतुभावः सन् उपयुज्यते । अनियतत्वेऽपि विशेषे नैयत्यमभिधित्सुराह गुणं उपरितनगुणस्थानं आरभमाणस्य पततो वा उपरितनगुणस्थानादधस्तनमागच्छतो, न पुनः स्थितस्य = तद्भावमात्रविश्रान्तस्य ।। २८ ।। आधिक्य- स्थैर्यसिद्ध्यर्थं चक्रभ्रामकदण्डवत् ।
=
असौ व्यञ्जकताप्यस्य तद्बलोपनतिक्रिया ।। २९ ।। आधिक्येति । आधिक्यं
सजातीयपरिणामप्राचुर्यं स्थैर्यं च = पतनप्रतिबन्धः तत्सिद्ध्यर्थं (= आधिक्य - स्थैर्यसिद्ध्यर्थं ) चक्रभ्रामकदण्डवद् असौ = उपदेश उपयुज्यते । यथा हि दण्डो भ्रमतश्चक्रस्य दृढभ्रम्यर्थं भग्नभ्रमेर्वा भ्रम्याधानार्थमुपयुज्यते, न तूचितभ्रमवत्येव तत्र । तथोपदेशोऽपि गुणप्रारम्भाय तत्पातप्रतिबन्धाय वोपयुज्यते, न तु स्थितपरिणामं प्रतीति ।
तदुक्तं उपदेशपदे- “उवएसो वि हु सफलो गुणठाणारंभगाण जीवाण । परिवडमाणाण तहा पायं न उ तट्ठिआणं पि ।। " ( उपदेशपद ४९९) व्यञ्जकताऽपि अस्य = उपदेशस्य । तद्बलेन = परिणामबलेन उपनतिक्रिया सन्निधानलक्षणा (= तद्बलोपनतिक्रिया) । अन्यथा घटादौ दण्डादेरपि व्यञ्जकत्वापत्तेरिति भावः ।। २९ ।।
=
१. हस्तादर्शे 'अनैका...' इति पाठः ।
For Private & Personal Use Only
।।३०७।।
www.jainelibrary.org