SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ दै to bhosdo s व पु रु ष का र द्वा शि का १७/२८ Jain Education International इत्थमिति । इत्थं प्रवाहतः परस्पराऽपेक्षावपि द्वौ दैव - पुरुषकारौ स्वप्राधान्यापेक्षया बाध्यबाधकौ । प्रायो = बाहुल्येन अत्र = अनयोर्मध्ये चरमावर्ते = अन्त्यपुद्गलपरावर्ते यत्नेन दैवं बाध्यते । तथाविधसङ्क्लेशावस्थायां नन्दिषेणादीनामिव कदाचिद्व्यत्ययोऽपि स्यादिति प्रायोग्रहणम् ||२६|| एवं च ग्रन्थिभेदोऽपि यत्नेनैव बलीयसा । औचित्येन प्रवृत्तिः स्यादूर्ध्वं तस्यैव चोदनात् ॥ २७॥ एवं चेति । एवं च = चरमावर्ते यत्नस्य बलीयस्त्वे च ग्रन्थिभेदोऽपि, किं पुनर्देवबाधेत्यपिशब्दार्थः, यत्नेनैव बलीयसा अतिशयवता । औचित्येन = धर्मार्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन प्रवृत्तिः स्यात् ऊर्ध्वं = ग्रन्थिभेदोत्तरं तस्यैव बलीयसो यत्नस्यैव चोदनात् = प्रेरणात् ।। २७ ।। ननु यद्येवं ग्रन्थिभेदादूर्ध्वं स्वपरिणामादेवोचितप्रवृत्तिसिद्धिस्तदोपदेशवैयर्थ्यं स्यादित्यत आह = उपदेशस्त्वनेकान्तो हेतुरत्रोपयुज्यते । गुणमारभमाणस्य पततो वा स्थितस्य न ।।२८।। १. हस्तादर्शे 'यत्नस्येव...' इत्यशुद्धः पाठः । २. हस्तादर्शे 'वैयर्थ्यं स्यादित्यत आह' इति पाठो नास्ति । For Private & Personal Use Only ।।३०६ ॥ www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy