________________
to to
व
पु
रु
ष
का
र
द्वा
त्रिं
शि
का
१७/२६
Jain Education International
सुकृतविशेषे विधीयमाने भावभेदतः = परिणामविशेषतस्तत्तारतम्यलक्षणात् फलस्य भेदः ( = फलभेदः) प्रकर्षाऽपकर्षरूपः कथं नु स्यात् ? न कथञ्चिदित्यर्थः, तथा तथा तेन तेन प्रकारेण शास्त्रादिसङ्गतः = शास्त्रलोकसिद्धः । तथाविधपुरुषकारविकलात् कर्मणः फलाभ्युपगमे न कथञ्चित्तच्चित्रता युज्यते । फलहेतोः 'कर्मणः पुरुषकारमन्तरेणैकाऽऽकारत्वाऽऽपत्तेरिति परापेक्षमेतद् द्वितयं प्रतिपत्तव्यमिति ।। २४ ।।
शुभात्ततस्त्वसौ भावो हन्ताऽयं तत्स्वभावभाक् 1 एवं किमत्र सिद्धं स्यादत एवाऽस्त्वतो ह्यदः ।।२५।। शुभादिति । शुभात् ततस्तु = तत एव कर्मणः प्राग् नानानिमित्तोपार्जिताद् असौ दानादिकाले भिन्नरूपतया प्रवृत्तो भावो हन्त अयं च फलभेदः तत्स्वभावभाक् = भावभेदाऽपेक्षोत्पत्तिकविचित्रस्वभाववानिति ।
परः पृच्छति - एवं किमत्र विचारे सिद्धं स्यात् ? तत्राऽऽह अत एव कर्मणः अस्तु भावः तथा अतो हि = अत एव भावाद् अदः = कर्माऽस्तु । तथा च प्रवाहेणाऽपि परस्पराऽपेक्षत्वमनयोः सिद्धमिति भावः ।। २५ ।।
इत्थं परस्परापेक्षावपि द्वौ बाध्यबाधकौ ।
प्रायोऽत्र चरमावर्ते दैवं यत्नेन बाध्यते ।। २६ ।।
१. हस्तादर्शे 'कर्मपुरुष...' इत्यशुद्धः पाठः । २. हस्तादर्शे 'हेतोयं' इत्यशुद्धः पाठः । ३. 'प्राये' इति मुद्रितप्रतावशुद्धः
पाठ: ।
For Private & Personal Use Only
।।३०५
www.jainelibrary.org