SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ व पु रु प का र who द्वा शि का १७/२४ Jain Education International फलाऽभावेऽपि बाध्यकर्मयोग्यताव्यवहारस्येति भावः । तदुक्तं- “नियमात्प्रतिमा नात्र न चाऽतोऽयोग्यतैव हि। तल्लक्षणवियोगेन प्रतिमेवाऽस्य बाधकः " ( योगबिन्दु ३३२) इति ।। २२ ।। ननु योग्यतैव प्रतिमामाक्षेप्स्यति किं तद्बाधकेन पुरुषकारेण ? इत्याशङ्क्याहदार्वादेः प्रतिमाऽऽक्षेपे' तद्भावः सर्वतो ध्रुवः' । योग्यायोग्यता वेति न चैषा लोकसिद्धितः ।। २३ ।। = दार्वादेरिति । दार्वादेः = दलस्य स्वयोग्यतयैव (प्रतिमाऽऽक्षेपे) प्रतिमानिष्पत्त्या तद्भावः प्रतिमाभावः सर्वतः = सर्वस्माद् ध्रुवो = निश्चितः प्रसज्येत । योग्यस्य दार्वादेरेव अयोग्यता प्रतिमानाक्षेपे वा इति एतत्प्रसज्येत । न च = न पुनः एषा = अयोग्यता, लोक (प्र) सिद्धित: । न हि दार्वादीनि प्रतिमानिष्पत्त्यभावेऽपि अयोग्यानीति प्रसिद्धिरस्ति, तदापि योग्यतयैव तेषां रूढत्वादिति ।। २३ ।। इदमेव प्रकृते योजयनन्नाह - कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । = फलभेदः कथं नु स्यात्तथाशास्त्रादिसङ्गतः ।। २४ ।। कर्मणोऽपीति । कर्मणोऽपि दैवसंज्ञितस्य एतदाक्षेपे = फलहेतुपुरुषकाराऽऽक्षेपे दानादौ १. हस्तादर्शे ‘प्रतिमापेक्षे' इत्यशुद्धः पाठः । २. 'ध्रुवम्' इति सर्वत्र प्रतौ पाठः । व्याख्यानुसारेण 'ध्रुवः' इति पाठः सम्यगाभाति । ३. 'योग्यतायोग्यता' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श ●' चिह्नद्वयमध्यवर्ती पाठो नास्ति । For Private & Personal Use Only 1130811 www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy