________________
बाधो भवेत् । कर्मणो यत्नाद् विक्रिया = अधिकृतफलजननशक्तिभङ्गलक्षणा बाध इत्यसौ बाध्यबाधकता' । ____एतेन प्रतिमया तद्धेतुयत्नेन वा तद्योग्यताबाधे तदुत्पत्तिवत् कर्मयोग्यताबाधेऽपि | तत्फलोत्पत्तिप्रसङ्ग इति निरस्तम् ।
उपादानस्यैव स्वनाशाऽभिन्नफलोत्पत्तिनियतत्वात् । कर्मयोग्यतायास्तु सुख-दुःखादिनिमित्तत्वाद् दण्डनाशे घटस्येव तन्नाशे फलस्यासम्भवात् इति द्रष्टव्यम् ।।२१।।
___ ननु येन कर्मणा फलं न जन्यते, तत्र न तद्योग्यतैव, किं यत्नस्य तद्बाधकत्वेनेत्याशङ्कायामाह
प्रतिमाया अनियमेऽप्यक्षता योग्यता यथा ।
फलस्यानियमेऽप्येवमक्षता कर्मयोग्यता ।।२२।। प्रतिमाया इति । प्रतिमाया अनियमेऽपि = अनैकान्त्येऽपि दार्वादिदले यथा योग्यता प्रतिमाया अक्षता तथालोकव्यवहारात । ___फलस्य = सुख-दुःखादिरूपस्य पुरुषकारबाध्यत्वेन अनियमेऽपि एवं कर्मयोग्यता
ऽक्षता, अध्यवसायविशेषप्रयुक्तरसस्थितिविशेषघटितत्वात्तस्याः, प्रामाणिकलोकप्रसिद्धत्वाच्च १७/२२|| १. हस्तादर्श '..बाधक' इति त्रुटितः पाठः। २. हस्तादर्श ...योग्यताबाधेऽपि तत्फल-बाधेऽपि तत्फलो...' इत्यधिकः
पाठः । स चाऽशुद्धः । ३. हस्तादर्श 'आने..' इति पाठः ।
ars kbps
॥३०॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org