________________
प्रतिमायोग्यतातुल्यं कर्मानियतभावकम् ।
बाध्यमाहुः प्रयत्नेन 'सेव प्रतिमयेत्यपि ॥२०॥ प्रतिमेति । प्रतिमायोग्यतया तुल्यं = सदृशं (=प्रतिमायोग्यतातुल्यं) कर्म फलजननं प्रति अनियतभावं(वकं), फलजनननियतिमतोऽबाध्यत्वात् । प्रयत्नेन बाध्यं = निवर्तनीयं 'सेव = प्रतिमायोग्यतेव प्रतिमयेत्यप्याहुः आचार्याः ।
अपिः कर्मणो बाधने पुरुषकारस्य तत्फलजनननियत्यभावनियतां नियतिं सहकारिणी समुच्चिनोति । तदिदमुक्तं- “कर्माऽनियतभावं तु यत् स्याच्चित्रं फलं प्रति । तद्बाध्यमत्र दादिप्रतिमायोग्यतासमम् (योगबिन्दु ३३१)" ।।२०।।
अत्र दृष्टान्त-दार्टान्तिकयोर्बाधकतैक्यं शब्दसाम्यादेव विकार-नाशसाधारणरूपान्तरपरिणत्यैव "वेत्यभिप्रायवानाह
प्रतिमायोग्यतानाशः प्रतिमोत्पत्तितो भवेत् ।
कर्मणो विक्रिया यत्नाद् बाध्यबाधकतेत्यसौ ॥२१॥ प्रतिमेति । प्रतिमोत्पत्तितः प्रतिमायोग्यताया नाश (प्रतिमायोग्यतानाशः) एव १. मुद्रितप्रतौ 'सैव' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ' ग्यतैव' इत्यशुद्धः पाठः । ३. हस्तादर्श ' प्रतिमे..' इत्यशुद्धः पाठः। ४. हस्तादर्श 'चित्रं प्रति फलं' इति पाठः । छन्दभगात्, मुद्रितयोगबिन्दुपुस्तके चानुपलब्धेः सोऽत्र न गृहीतः । ५. हस्तादर्श 'वैत्य...' इत्यशुद्धः पाठः । ६. हस्तादर्श 'प्रतिमेति' इति नास्ति ।
॥३०२।।
१७/२१||
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org