________________
।। तयाऽपेक्षणात् केवलं प्रतिहतत्वेनैव = प्रतिघातप्रतियोगित्वेन गौणत्वमात्रं स्यादिति बोध्यम् ।।१७।।
कर्मणा 'कर्ममात्रस्य नोपघातादि तत्त्वतः ।
स्वव्यापारगतत्वे तु तस्यैतदपि युज्यते ।।१८।। कर्मणेति । कर्मणा केवलेनैव कर्ममात्रस्य = केवलस्यैव कर्मणः न उपघातादि = उपघातानुग्रही तत्त्वतः = अनुपचारेण । न हि केवलं कर्म किञ्चिदुपहन्तुं निगृहीतुं वा क्षमं, असहायत्वात् । स्वव्यापारगतत्वे तु = जीवक्रियाप्रतिबद्धत्वे पुनः तस्य कर्मणः एतदपि परस्परोपघात ।।१८।।
उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया ।
बाध्यबाधकभावः स्यात्सम्यग् 'न्यायाऽविरोधतः ।।१९।। उभयोरिति । उभयोर्दैव-पुरुषकारयोः तत्स्वभावत्वे = बाध्य-बाधकस्वभावत्वे तेषां तेषां कालादीनां सहकारिकारणानामपेक्षया (= तत्तत्कालाद्यपेक्षया) बाध्यबाधकभावः = उपघात्योपघातकभावः स्यात्, सम्यग् न्यायस्य = सम्यग्युक्तेः अविरोधतः = अविघटनात्
(= सम्यग्न्यायाविरोधतः) ।।१९।। १७/१९||
१. हस्तादर्श 'चर्म' इति पाठः । २. हस्तादर्श 'कर्म' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्श 'बाध्य' पदं नास्ति । ४. हस्तादर्श 'नाया' इत्यशुद्धः पाठः । ५. 'तेषां' इति एकं पदं मुद्रितप्रतौ नास्ति ।
aroby kosh
।।३०१॥
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org