________________
व
पु
रु
bhosdo s
ष
का
र
द्वा
शि
का
१७/१७
Jain Education International
न चेति । न च क्षणिकं क्रियाकालमात्रोपरतं कर्म अदृष्टमन्तरा फलाय = फलं जनयितुं अलं समर्थं, चिरध्वस्तस्य कालान्तरभाविफलजनकत्वस्य भावव्यापारकत्वव्याप्तत्वाऽवधारणात् । ध्वंसस्य च व्यापारत्वेऽनुभवेनाऽपि तद्द्वारैव स्मृतिजननोपपत्तौ संस्कारोऽप्युच्छिद्येत । तदुक्तमुदयनेनापि - “चिरध्वस्तं फलायाऽलं न कर्माऽतिशयं विना " ( न्यायकुसुमाञ्जलि - १ / ९) इति ।
अपि च प्रायश्चित्तविधेरपि अदृष्टमन्तरा वैयर्थ्यं प्रसज्येत । अधर्मनाशेनैव तस्य फलवत्त्वात्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानामप्रसिद्ध्या तन्नाशस्य कर्तुमशक्यत्वात्, दुःखप्रागभावस्याप्यसाध्यत्वात् ।
प्रागभावस्य प्रतियोगिजनकत्वनियमेन तज्जन्यदुःखोत्पत्त्यापत्तेश्चेत्यन्यत्र विस्तरः । १६ ।। विशेषश्चात्र बलवदेकमन्यन्निहन्ति यत्' ।
=
=
व्यभिचारश्च नाप्येवमपेक्ष्य प्रतियोगिनम् ।। १७ ।।
विशेषश्चेति । अत्र च = दैवपुरुषकारविचारणायां विशेषः अयं यद् अनयोर्मध्ये एकं बलवद् अन्यद् निर्बलं निहन्ति स्वफलमुपदधानं प्रतिस्खलयति ।
नन्वत्रैवैकव्यभिचारादुभयोरन्योऽन्यापेक्षत्वक्षतिरित्यत्राह
एवमपि च प्रतियोगिनमपेक्ष्य न व्यभिचारः एकेनाऽन्यप्रतिघातेऽप्यन्यस्य प्रतियोगि
१. हस्तादर्शे 'च' इति पाठ: I
=
=
For Private & Personal Use Only
1130011
www.jainelibrary.org