________________
Risto
ईषदुन्मज्जनाऽऽभोगो 'योगचित्तं भवोदधौ ।
तच्छक्त्यतिशयोच्छेदि दम्भोलिग्रन्थिपर्वते ।।१२।। ईषदिति। योगचित्तं = योगबीजोपादानप्रणिधानचित्तं भवोदधौ = संसारसमुद्रे ईषद् = मनाग उन्मज्जनस्याऽऽभोगः (=उन्मज्जनाऽऽभोगः) । तच्छक्तेः = भवशक्तेः अतिशयस्य = उद्रेकस्य उच्छेदि = नाशकं (=तच्छक्त्यतिशयोच्छेदि) । ग्रन्थिरूपे पर्वते (=ग्रन्थिपर्वते) दम्भोलिः = वज्रं, नियमात्तद्भेदकारित्वात् । इत्थं 'चैतत् फलपाकाऽऽरम्भसदृशत्वादस्येति समयविदः ।।१२।।
आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु ।
न चाऽन्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि ।।१३।। आचार्यादिष्वपीति। आचार्यादिष्वपि = आचार्योपाध्यायतपस्व्यादिष्वपि (हि) एतत् = कुशलचित्तादि विशुद्धं = संशुद्धमेव भावयोगिषु = तात्त्विकगुणशालिषु योगबीजम् । न चान्येष्वपि = द्रव्याऽऽचार्यादिष्वपि, कूटेऽकूटधियोऽपि हि असारत्वात् = असुन्दरत्वात् तस्याः सद्योगबीजत्वाऽनुपपत्तेः ।।१३।।
श्लाघनाद्यसदाशंसापरिहारपुरःसरम् । १. हस्तादर्श 'बीजचित्तं' इति पाठः । २. हस्तादर्श 'प्रणिधाने चित्तं' इति पाठः । ३. हस्तादर्श '...स्ने' इत्यशुद्धः पाठः। ४. हस्तादर्श 'चित' इत्यशुद्धः पाठः ।
२१/१३
||३७०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org