________________
रहितत्वाच्च । तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात्। अत एव उपादेयधिया = ) अन्याऽपोहेनाऽऽदरणीयत्वबुद्ध्या शुद्धम् । तदुक्तं- “उपादेयधियात्यन्तं संज्ञाविष्कम्भणाऽन्वितम् । फलाऽभिसन्धिरहितं संशुद्धं ह्येतदीदृशम्।।” (योगदृष्टि समुच्चय २५) ।।९।।
प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः ।
तत्स्थानस्थितिकार्येव वीरे गौतमरागवत् ॥१०॥ प्रतिबन्धेति । प्रतिबन्धे = स्वासङ्गे एका = केवला निष्ठा यस्य तत्तथा (=प्रतिबन्धैकनिष्ठं) अदो जिनविषयकुशल-चित्तादि तत्स्थानस्थितिकार्येव, तथास्वभावत्वात् । वीरे = वर्धमानस्वामिनि गौतमरागवत् = गौतमीयबहुमानवत् । असङ्गसक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन मोक्षफलपर्यवसानं भवति इति विवेचितं प्राक् ।।१०।।
सरागस्याऽप्रमत्तस्य वीतरागदशानिभम् ।
अभिन्दतोऽप्यदो ग्रन्थिं योगाचार्यैर्यथोदितम् ।।११।। सरागस्येति । अदः शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दतोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थ्येन तथाविधक्षयोपशमादतिशयिताऽऽनन्दानुभवात् । सरागस्याऽप्रमत्तस्य सतो यतेः वीतरागदशानिभम् । सरागस्य वीतरागत्वप्राप्ताविव' योगबीजोपादानवेलायामपूर्वः कोऽपि ।।३६९ ।। स्वाऽनुभवसिद्धोऽतिशयलाभ इति भावः । यथोदितं योगाचार्यः ।।११।। १. हस्तादर्श ....वियोग' इत्यशुद्धः त्रुटितश्च पाठः ।
२१/११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org