SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ मि त्रा ho to s द्वा त्रिं शि का २१/९ Jain Education International जिनप्रवचनात् श्रुतमपि योगबीजमुपादत्ते, तथास्वाभाव्यात् ।।७।। उक्तयोगबीजमेवाऽऽहजिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ ८ ॥ जिनेष्विति । जिनेषु = अर्हत्सु कुशलं = द्वेषाद्यभावेन प्रीत्यादिमत् चित्तम् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव = जिननमस्कार एव च तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिं। प्रणामादि च पञ्चाङ्गादिलक्षणं, आदिशब्दाद् मण्डलादिग्रहः । संशुद्धं अशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वाSनुपपत्तेः । एतत्सर्वं सामस्त्यप्रत्येकभावाभ्यां योगबीजं = मोक्षयोजकाऽनुष्ठानकारणं अनुत्तमं सर्वप्रधानं विषयप्राधान्यात् ||८|| चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ।। ९ ।। चरम इति । अदो हि = एतच्च चरमे = अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पाकतो (=तथाभव्यत्वपाकतः) मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धेः । प्रतिबन्धे आसङ्गेन *उज्झितं (=प्रतिबन्धोज्झितं ) आहारादिसंज्ञोदयाऽभावात्, फलाऽभिसन्धि१. हस्तादर्शे '...मत् चित्तं' इति पाठो नास्ति । २. हस्तादर्शे 'मंझला...' इत्यशुद्धः पाठः । ३. हस्तादर्शे '....धुर्याऽसिद्धेः' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'उष्ठितं' इत्यशुद्धः पाठः । = = For Private & Personal Use Only ।।३६८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy