________________
मि
त्रा
ho to s
द्वा
त्रिं
शि
का
२१/९
Jain Education International
जिनप्रवचनात् श्रुतमपि योगबीजमुपादत्ते, तथास्वाभाव्यात् ।।७।। उक्तयोगबीजमेवाऽऽहजिनेषु कुशलं चित्तं तन्नमस्कार एव च ।
प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ ८ ॥
जिनेष्विति । जिनेषु = अर्हत्सु कुशलं = द्वेषाद्यभावेन प्रीत्यादिमत् चित्तम् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव = जिननमस्कार एव च तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिं। प्रणामादि च पञ्चाङ्गादिलक्षणं, आदिशब्दाद् मण्डलादिग्रहः । संशुद्धं अशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वाSनुपपत्तेः । एतत्सर्वं सामस्त्यप्रत्येकभावाभ्यां योगबीजं = मोक्षयोजकाऽनुष्ठानकारणं अनुत्तमं सर्वप्रधानं विषयप्राधान्यात् ||८||
चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः ।
प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ।। ९ ।।
चरम इति । अदो हि = एतच्च चरमे = अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पाकतो (=तथाभव्यत्वपाकतः) मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धेः । प्रतिबन्धे
आसङ्गेन *उज्झितं (=प्रतिबन्धोज्झितं ) आहारादिसंज्ञोदयाऽभावात्, फलाऽभिसन्धि१. हस्तादर्शे '...मत् चित्तं' इति पाठो नास्ति । २. हस्तादर्शे 'मंझला...' इत्यशुद्धः पाठः । ३. हस्तादर्शे '....धुर्याऽसिद्धेः' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'उष्ठितं' इत्यशुद्धः पाठः ।
=
=
For Private & Personal Use Only
।।३६८ ।।
www.jainelibrary.org