________________
अस्तेयाऽभ्यासवतश्च रत्नोपस्थानं = तत्प्रकर्षान्निरभिलाषस्याऽपि सर्वतो 'दिव्यानि रत्नान्युपतिष्ठन्त इत्यर्थः । ब्रह्मचर्याऽभ्यासवतश्च सतो निरतिशयस्य वीर्यस्य लाभः (= रत्नोपस्थानसद्वीर्यलाभः) । वीर्यनिरोधो हि ब्रह्मचर्य, तस्य प्रकर्षाच्च वीर्यं शरीरेन्द्रियमनःसु प्रकर्षमागच्छतीति । अपरिग्रहाऽभ्यासवतश्च जनुष उपस्थितिः (= जनुरनुस्मृतिः) “कोऽहमासं? कीदृशः ? किंकार्यकारी" इति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः । किं त्वात्मनः शरीरपरिग्रहोऽपि, तथाभोगसाधनत्वाच्छरीरस्य । तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण •माध्यस्थ्यमवलम्बते तदा. मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति । तदाह- “जन्मकथन्तासम्बोधः" इति (यो. सू. २-३९) ।।६।।
इत्थं यमप्रधानत्वमवगम्य स्वतन्त्रतः ।
योगबीजमुपादत्ते श्रुतमत्र श्रुतादपि ।।७।। इत्थमिति । इत्थम् = उक्तप्रकारेण स्वतन्त्रतः = स्वाभिमतपातञ्जलादिशास्रतो यमप्रधानत्वमवगम्य अत्र = मित्रायां दृष्टौ निवृत्ताऽसद्ग्रहतया सद्गुरुयोगे श्रुतात् = १. मुद्रितप्रतौ 'दिक्कालानि' इत्यशुद्धः पाठः । २.मुद्रितप्रतौ 'सर्वमेव' इति पाठो नास्ति । ३. हस्तादर्श 'ग्रहापेक्ष्येण' इति पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
२१/७
||३६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org