SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 分不可分何和 मि त्रा द्वा त्रिं शि का २१/६ Jain Education International प्रकर्षं गच्छतामेतद्यमानां फलमुच्यते ॥ ५ ॥ दुःखे । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः, अज्ञानं मिथ्याज्ञानं संशयविपर्ययादिरूपं, ते अनन्ते = अपरिच्छिन्ने फलं येषां ते तथोक्ताः (= दुःखाऽज्ञानाऽनन्तफला ) अमी वितर्का इति विभावनात् = निरन्तरं ध्यानात् प्रकर्षं गच्छतां यमानाम् एतत् वक्ष्यमाणं फलमुच्यते ।। ५ ।। वैरत्यागोऽन्तिके तस्य, फलं चाऽकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः ।।६।। वैरेति । तस्य = अहिंसाऽभ्यासवतः अन्तिके = सन्निधौ वैरत्यागः = सहजविरोधिनामप्यहि-नकुलादीनां हिंस्रत्वपरित्यागः २ तदुक्तं- “`तत्सन्निधौ वैरत्यागः " ( योगसूत्र २३५) । = सत्याऽभ्यासवतश्चाऽकृतकर्मणः = अविहिताऽनुष्ठानस्याऽपि फलं तदर्थोपनतिलक्षणम् । * क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति । अस्य तु सत्यं तथा प्रकृष्यते, यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाच्च यस्य कस्यचित् क्रियामकुर्वतोऽपि फलं भवतीति । तदाह- " "क्रियाफलाऽऽश्रयत्वं " ( योगसूत्र २ - ३६ ) । १. मुद्रितप्रतौ 'वितका' इत्यशुद्धः पाठः । २ हस्तादर्शे ...परिहार' इति पाठान्तरम् । ३. 'तस्स..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. प्राचीनमुद्रितप्रतौ ' लक्षणक्रिय...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।३६६ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy