________________
分不可分何和
मि
त्रा
द्वा
त्रिं
शि
का
२१/६
Jain Education International
प्रकर्षं गच्छतामेतद्यमानां फलमुच्यते ॥ ५ ॥
दुःखे । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः, अज्ञानं मिथ्याज्ञानं संशयविपर्ययादिरूपं, ते अनन्ते = अपरिच्छिन्ने फलं येषां ते तथोक्ताः (= दुःखाऽज्ञानाऽनन्तफला ) अमी वितर्का इति विभावनात् = निरन्तरं ध्यानात् प्रकर्षं गच्छतां यमानाम् एतत् वक्ष्यमाणं फलमुच्यते ।। ५ ।।
वैरत्यागोऽन्तिके तस्य, फलं चाऽकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः ।।६।।
वैरेति । तस्य = अहिंसाऽभ्यासवतः अन्तिके = सन्निधौ वैरत्यागः = सहजविरोधिनामप्यहि-नकुलादीनां हिंस्रत्वपरित्यागः २ तदुक्तं- “`तत्सन्निधौ वैरत्यागः " ( योगसूत्र २३५) ।
=
सत्याऽभ्यासवतश्चाऽकृतकर्मणः = अविहिताऽनुष्ठानस्याऽपि फलं तदर्थोपनतिलक्षणम् । * क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति । अस्य तु सत्यं तथा प्रकृष्यते, यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाच्च यस्य कस्यचित् क्रियामकुर्वतोऽपि फलं भवतीति । तदाह- " "क्रियाफलाऽऽश्रयत्वं " ( योगसूत्र २ - ३६ ) ।
१. मुद्रितप्रतौ 'वितका' इत्यशुद्धः पाठः । २ हस्तादर्शे ...परिहार' इति पाठान्तरम् । ३. 'तस्स..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. प्राचीनमुद्रितप्रतौ ' लक्षणक्रिय...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।३६६ ।।
www.jainelibrary.org