________________
हतूक क
शि
का
२१/४
Jain Education International
क्रोधाल्लोभाच्च मोहाच्च कृताऽनुमित-कारिता: । मृदु-मध्याऽधिमात्राश्च वितर्काः सप्तविंशतिः ॥४॥
क्रोधादिति । क्रोधः कृत्याऽकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् (=क्रोधात्) । लोभस्तृष्णालक्षणस्ततः (= लोभात्) च । मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माऽभिमानलक्षणः । इत्थं च कारणभेदेन त्रैविध्यं दर्शितं भवति । तदुक्तं -" लोभक्रोधमोह पूर्वकाः " इति । ( योगसूत्र २ - ३४ ) व्यत्ययाऽभिधानेऽप्यत्र मोहस्य प्राधान्यं स्वपरविभागपूर्वकयोलोभक्रोधयोस्तन्मूलत्वादिति वदन्ति ।
ततः कारणत्रयात् कृताऽनुमित- कारिता एते हिंसादयो नवधा भिद्यन्ते । तेऽपि मृदवो = मन्दाः, मध्याश्चाऽतीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । तदुक्तं“मृदु-मध्याऽधि' मात्राः" इति ( योगसूत्र २ - ३४ ) । इत्थं च सप्तविंशतिर्वितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येकं मृदु-मध्याऽधिमात्राभेदो' भावनीय इति वदन्ति ||४|| 'दुःखाऽज्ञानाऽनन्तफला अमी इति विभावनात् ।
१. हस्तादर्शे ‘कृतानुमेति....' इत्यशुद्धः पाठः । २. '... मोहमूला' इति हस्तादर्शे । परं योगसूत्रानुसारेण '...मोहपूर्वका..' इति पाठो युज्यते । ३. 'व्यत्या...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. मुद्रितप्रतौ 'मध्यादि' इत्यशुद्धः पाठः । ५. हस्तादर्शे '... धिमात्रभेद' इति पाठः । . इत आरभ्य मुद्रितप्रतौ ' ( वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोहपूर्वका मृदु-मध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावन्) ' इत्येवं पाठः सम्पादकेन योगसूत्राद् योजितः । परं कुत्राऽपि हस्तादर्शे नोपलभ्यते । ६. हस्तादर्शे 'दुःखज्ञाना...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।३६५ ।।
www.jainelibrary.org