SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ हतूक क शि का २१/४ Jain Education International क्रोधाल्लोभाच्च मोहाच्च कृताऽनुमित-कारिता: । मृदु-मध्याऽधिमात्राश्च वितर्काः सप्तविंशतिः ॥४॥ क्रोधादिति । क्रोधः कृत्याऽकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् (=क्रोधात्) । लोभस्तृष्णालक्षणस्ततः (= लोभात्) च । मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माऽभिमानलक्षणः । इत्थं च कारणभेदेन त्रैविध्यं दर्शितं भवति । तदुक्तं -" लोभक्रोधमोह पूर्वकाः " इति । ( योगसूत्र २ - ३४ ) व्यत्ययाऽभिधानेऽप्यत्र मोहस्य प्राधान्यं स्वपरविभागपूर्वकयोलोभक्रोधयोस्तन्मूलत्वादिति वदन्ति । ततः कारणत्रयात् कृताऽनुमित- कारिता एते हिंसादयो नवधा भिद्यन्ते । तेऽपि मृदवो = मन्दाः, मध्याश्चाऽतीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । तदुक्तं“मृदु-मध्याऽधि' मात्राः" इति ( योगसूत्र २ - ३४ ) । इत्थं च सप्तविंशतिर्वितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येकं मृदु-मध्याऽधिमात्राभेदो' भावनीय इति वदन्ति ||४|| 'दुःखाऽज्ञानाऽनन्तफला अमी इति विभावनात् । १. हस्तादर्शे ‘कृतानुमेति....' इत्यशुद्धः पाठः । २. '... मोहमूला' इति हस्तादर्शे । परं योगसूत्रानुसारेण '...मोहपूर्वका..' इति पाठो युज्यते । ३. 'व्यत्या...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. मुद्रितप्रतौ 'मध्यादि' इत्यशुद्धः पाठः । ५. हस्तादर्शे '... धिमात्रभेद' इति पाठः । . इत आरभ्य मुद्रितप्रतौ ' ( वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोहपूर्वका मृदु-मध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावन्) ' इत्येवं पाठः सम्पादकेन योगसूत्राद् योजितः । परं कुत्राऽपि हस्तादर्शे नोपलभ्यते । ६. हस्तादर्शे 'दुःखज्ञाना...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।३६५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy