SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ मि त्रा द्वा त्रिं शि का २१/३ Jain Education International रूपस्य समयस्य च ग्रहः । ततो दिक्कालादिनाऽनवच्छिन्नाः (= दिक्कालाद्यनवच्छिन्नाः) “तीर्थे 'कञ्चन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि ब्राह्मणान्न हनिष्यामि, देव-ब्राह्मणाद्यर्थव्यतिरेकेण न कमपि हनिष्यामि” इत्येवंविधाऽवच्छेदव्यतिरेकेण सर्वविषया अहिंसादयो यमाः सार्वभौमाः सर्वासु क्षिप्ताद्यासु चित्तभूमिषु सम्भवन्तो महाव्रतमित्युच्यते । तदुक्तं- “ एते तु जाति- देश - काल-समयाऽनवच्छिन्नाः' सार्वभौमा महाव्रतम् ” ( योगसूत्र २ - ३१ ) इति ।। २ ।। बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाऽङ्गत्वमुदाहृतम् ॥ ३ ॥ = बाधनेनेति । वितर्काणां = योगपरिपन्थिनां हिंसादीनां प्रतिपक्षस्य भावनात् बाधनेन'अनुत्थानोपहतिलक्षणेन' (योगसौकर्यतः = ) योगस्य सौकर्यतः सामग्रीसम्पत्तिलक्षणाद् अमीषां : अहिंसादीनां यमानां योगाङ्गत्वमुदाहृतम् । न तु धारणादीनामिव समाधेः साक्षादुपकारकत्वेन, न वासनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः । तदुक्तं“वितर्कबाधने प्रतिपक्षभावनमिति” ( योगसूत्र २-३३) ।।३।। १. हस्तादर्श 'किंचन' इति पाठः । २ हस्तादर्शे 'हमि' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ क्षिप्राद्यासु' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'च्यंते' इत्यशुद्धः पाठः । ५. हस्तादर्शे ' ..नवन्नाः' इति त्रुटितोऽशुद्धश्च पाठः । ६. हस्तादर्शे ' अनुत्थावोप...' इत्यशुद्धः पाठः । ७. हस्तादर्शे लक्षणे सति' इति पाठः । For Private & Personal Use Only ।।३६४।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy