________________
देवकार्यादौ आदिशब्दाद् गुरुकार्यादिपरिग्रहः तथातथोपनतेऽस्मिंस्तथापरितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि' भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्च अन्यत्र' त्वदेवकार्यादौ तथा'तत्त्ववेदितया ।
मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाकुराऽनुदयात्तथाविधाऽनुष्ठानमधिकृत्य । अत्र स्थितस्य हि करुणांशबीजस्यैवेषत्स्फुरणमिति ।।१।। यमस्वरूपं सभेदमभिधत्ते
अहिंसा-सूनृताऽस्तेय-ब्रह्माऽकिञ्चनता' यमाः।
दिक्कालाद्यनवच्छिन्नाः सार्वभौमा महाव्रतम् ।।२।। अहिंसेति । प्राणवियोगप्रयोजनो व्यापारो हिंसा, तदभावो = अहिंसा | वाङ्मनसोर्यथार्थत्वं सूनृतम् । परस्वाऽपहरणं स्तेयं तदभावो = अस्तेयम् । उपस्थसंयमो = ब्रह्म ।
___ भोगसाधनानामस्वीकारोऽकिंचनता (=अहिंसा-सूनृताऽस्तेय-ब्रह्माकिञ्चनता)। एते यमाः। तदुक्तं- “अहिंसा-सत्याऽस्तेय-ब्रह्मचर्यापरिग्रहा यमा इति” (योगसूत्र २-३०)। दिक् = देशस्तीर्थादिः, कालः = चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेः ब्राह्मणादिप्रयोजन१. हस्तादर्श ...भावेऽपि' इति पाठान्तरम् । २. मुद्रितप्रती सर्वत्र हस्तादर्शषु च '...अपरत्र...' इति पाठः । परं मूलग्रन्थानुसारेणात्र ....अन्यत्र' इति पाठः सङ्गच्छते। अर्थभेदस्तु न कश्चिदित्यवधेयम् । ३. मुद्रितप्रतिहस्तादर्शादौ अनेकत्र 'तत्त्वाऽवे..' इति पाठः । ४. हस्तादर्श '..कांचनता' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः।
२१/२
|||३६३।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org