SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रकृत्येति । अतः = उक्तहेतोः सूत्रे = जिनप्रवचने प्रकृत्या = निसर्गेण भद्रको = || निरुपमकल्याणमूर्तिः, शान्तः = क्रोधविकाररहितः, विनीतः = अनुद्धतप्रकृतिः, मृदुः = निर्दम्भः, उत्तमः = सन्तोषसुखप्रधानः, मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनं उक्तः शिवराजर्षिवदिति ।।३२।। ।। इति योगावतारद्वात्रिंशिका ।।२०।। भ 24, ॥ अथ मित्राद्वात्रिंशिका ॥२१॥ योगाऽवतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूपयन्नाह मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राऽद्वेष एव च ॥१॥ मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं = स्वल्पो बोधः तृणाग्निकणोद्योतेन सदृशः। योगाङ्गं च यमो भवेद् इच्छादिभेदः। अखेदः = अव्याकुलतालक्षणः (एव) १. 'योगांग' इति मुद्रितप्रतावशुद्धः पाठः । हस्तप्रतौ च 'योगायं' इत्यशुद्धः पाठः । २. हस्तादर्श 'तन्दं' इत्यशुद्धः पाठः। ।।३६२।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy