________________
गा
व
ता
र
hus तू
द्वा
त्रिं
शि
का
२०/३२
Jain Education International
जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः ।। ३० ।।
तादृशीति । तादृशि = स्वर्गगतिनिबन्धने सरागचारित्रदशाभाविनि' औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया (= जाग्रन्निरन्तरगतिप्रायाः) योगानां प्रवृत्तयो ( = योगप्रवृत्तयः ) भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः तथाविधकर्मरूपश्रमाऽभावेन तदपनयनार्थस्वापसमस्वर्भवेनाऽविलम्बादिति भावः ||३०|| मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः ।
मार्गाऽभिमुखभावेन कुर्वते मोक्षयोजनम् ।। ३१ ।
मिथ्यात्व इति । मिथ्यात्वे = मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्ते अपुनर्बन्धकत्वादिभावेन मित्राद्या अपि दृष्टयः चतस्रः किं पुनः स्थिराद्या इत्यप्यर्थः मार्गाभिमुखभावेन 'मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते, चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ।।३१।।
=
प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः ।
सूत्रे मिथ्यादृगप्युक्तः परमानन्दभागतः ।। ३२।
१. ' दशावति (दशाभाविनि) औद...' इति मुद्रितप्रतौ पाठः । हस्तादर्शे 'दशावति' इति पाठो नास्ति । २. मुद्रितप्रती 'योगिनां' इत्यशुद्धः पाठः । ३. 'स्वभावे' इत्यशुद्ध: पाठो मुद्रितप्रतौ । ४. मुद्रितप्रतौ 'मार्गासां....' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।३६१ ।।
www.jainelibrary.org