SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ गा व ता र hus तू द्वा त्रिं शि का २०/३२ Jain Education International जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः ।। ३० ।। तादृशीति । तादृशि = स्वर्गगतिनिबन्धने सरागचारित्रदशाभाविनि' औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया (= जाग्रन्निरन्तरगतिप्रायाः) योगानां प्रवृत्तयो ( = योगप्रवृत्तयः ) भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः तथाविधकर्मरूपश्रमाऽभावेन तदपनयनार्थस्वापसमस्वर्भवेनाऽविलम्बादिति भावः ||३०|| मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः । मार्गाऽभिमुखभावेन कुर्वते मोक्षयोजनम् ।। ३१ । मिथ्यात्व इति । मिथ्यात्वे = मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्ते अपुनर्बन्धकत्वादिभावेन मित्राद्या अपि दृष्टयः चतस्रः किं पुनः स्थिराद्या इत्यप्यर्थः मार्गाभिमुखभावेन 'मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते, चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ।।३१।। = प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्यादृगप्युक्तः परमानन्दभागतः ।। ३२। १. ' दशावति (दशाभाविनि) औद...' इति मुद्रितप्रतौ पाठः । हस्तादर्शे 'दशावति' इति पाठो नास्ति । २. मुद्रितप्रती 'योगिनां' इत्यशुद्धः पाठः । ३. 'स्वभावे' इत्यशुद्ध: पाठो मुद्रितप्रतौ । ४. मुद्रितप्रतौ 'मार्गासां....' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।३६१ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy