________________
FFER
सापायपाता = दुर्गतिहेतुकर्मबलेन तन्निमित्तभावादपायसहिताः । कर्मवैचित्र्याद भ्रंशयोगेन सपाताश्च । न तु सपाता एव, ताभ्यस्तदुत्तरभावादिति । तथोत्तराः = चतस्रः स्थिराद्या दृष्टयो भिन्नग्रन्थे-स्तत्त्वतः = परमार्थतश्च निरपायाः । श्रेणिकादीनामेतदभावोपात्तकर्मसामर्थ्येन' प्रतिपातेऽपि हि तस्याऽपायस्याऽपि सदृष्ट्यविघातेन तत्त्वतोऽनपायत्वाद्वज्रतण्डुलवत्पाकेन तदाशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेः ।।
योगाऽऽचार्या एवाऽत्र प्रमाणम् । तदुक्तं- “प्रतिपातयुताश्चाऽऽद्याश्चतस्रो नोत्तरास्तथा। सापाया अपि चैतास्ताः प्रतिपातेन नेतराः ।।” (योगदृष्टि-१९) इति ।।२८।।
प्रयाणभङ्गाऽभावेन निशि स्वापसमः पुनः ।
विघातो दिव्यभवतश्चरणस्योपजायते ।।२९।। प्रयाणेति । प्रयाणस्य = कन्यकुब्जादावनवरतगमनलक्षणस्य भङ्गाभावेन (=प्रयाणभङ्गाभावेन) निशि = रात्रौ स्वापसमः पुनर्विघातः = प्रतिबन्धः दिव्यभवतः' - स्वर्गजन्मनः सकाशात चरणस्य = चारित्रस्य उपजायते ।।२९।।
तादृश्यौदयिके भावे विलीने योगिनां पुनः ।
२०/२९
॥३६०।।
१. मुद्रितप्रतौ 'सामर्थ्य हि तस्याऽपा..' इत्येवं त्रुटितः अशुद्धश्च पाठः । पाटणहस्तप्रतौ ...नाऽप्रति स हि..' इत्यशुद्धः पाठः। २. हस्तादर्शविशेषे च 'प्रतिसहि..' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ सर्वत्र हस्तादर्श च 'पुनर्दिव्य...' इत्यशुद्धः पाठः । ४. हस्तादर्श "दिव्यभव्यत' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org