SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ यो गा व ता र hos द्वा त्रिं शि का १०/२८ Jain Education International रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः, नलादिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वा दिति ||२६|| यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ।। २७ ।। यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- “ यम-नियमाऽऽसन-प्राणायामप्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्येति ” ( योगसूत्र २ - २९) तैर्युक्तानाम् ( =यमादियोगयुक्तानां ) खेदादीनां ध्यानाऽभिधानस्थले प्रोक्तानां योगप्रत्यनीकाऽऽशयलक्षणानां परिहारतः (= खेदादिपरिहारतः ) अद्वेषादयो येऽष्टौ गुणाः । तदुक्तं- “ अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे " ( षोडशक१६/१४) इति । तत्स्थानां तत्प्रतिबद्धवृत्तीनां (= अद्वेषादिगुणस्थानां) क्रमेणैषा = दृष्टिः सतां भगवत्पतञ्जलि-भदन्तभास्करादीनां योगिनां मता = इष्टा ।। २७ ।। आद्याश्चतस्रः 'सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ।। २८ ।। आद्या इति । आद्याश्चतस्रो = मित्राद्या दृष्टय इह १. हस्तादर्शे 'सांपायापा.. इत्यशुद्धः पाठः = । २. मुद्रितप्रतौ भवति' जगति मिथ्यादृशां भवन्ति' । इत्यशुद्धः पाठः । For Private & Personal Use Only ।।३५९ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy