SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ यो गा व ता र hos द्वा त्रिं शि का १०/२८ Jain Education International रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः, नलादिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वा दिति ||२६|| यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ।। २७ ।। यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- “ यम-नियमाऽऽसन-प्राणायामप्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्येति ” ( योगसूत्र २ - २९) तैर्युक्तानाम् ( =यमादियोगयुक्तानां ) खेदादीनां ध्यानाऽभिधानस्थले प्रोक्तानां योगप्रत्यनीकाऽऽशयलक्षणानां परिहारतः (= खेदादिपरिहारतः ) अद्वेषादयो येऽष्टौ गुणाः । तदुक्तं- “ अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे " ( षोडशक१६/१४) इति । तत्स्थानां तत्प्रतिबद्धवृत्तीनां (= अद्वेषादिगुणस्थानां) क्रमेणैषा = दृष्टिः सतां भगवत्पतञ्जलि-भदन्तभास्करादीनां योगिनां मता = इष्टा ।। २७ ।। आद्याश्चतस्रः 'सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ।। २८ ।। आद्या इति । आद्याश्चतस्रो = मित्राद्या दृष्टय इह १. हस्तादर्शे 'सांपायापा.. इत्यशुद्धः पाठः = । २. मुद्रितप्रतौ भवति' जगति मिथ्यादृशां भवन्ति' । इत्यशुद्धः पाठः । For Private & Personal Use Only ।।३५९ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy