SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ यो गा व ता र bhoot द्वा त्रिं शि का २०/२६ Jain Education International (५) स्थिरा च भिन्नग्रन्थेरेव सा च रत्नाऽऽभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नाऽपरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति । (६) कान्ता तु ताराऽऽभा, तदवबोधस्ताराभास्समानः । अतः स्थित एव प्रकृत्या । निरतिचारमत्राऽनुष्ठानं शुद्धोपयोगानुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति । (७) प्रभाssssभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पाऽवसरः, प्रशमसारं सुखमिह अकिञ्चित्कराण्यत्राऽन्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनेयेषु तथाऽवन्ध्या सत्क्रियेति । (८) परा तु दृष्टिश्चन्द्राऽऽभा, तदवबोधश्चन्द्रचन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, ৺तदभावेनोत्तमं सुखं, आरूढाऽऽरोहेणवन्नाऽनुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति । तथा क्रमेण मित्राद्यनुक्रमेणेक्ष्वादिसन्निभा, दृष्टिः, इक्षु-रस- कक्कब-गुडकल्पाः खल्वाद्याश्चतस्रः खण्ड-शर्करा-मत्स्यण्ड-वर्षोलकसमाश्चाऽग्रिमा इत्याचार्याः । इक्ष्वादिकल्पानामेव १. 'तु' पदं मुद्रितप्रतौ नास्ति । २. मुद्रितप्रतौ 'विनयेषु' इत्यशुद्धः पाठः । ३. हस्तादर्शे '...चभा' इति त्रुटितोऽशुद्धश्च पाठः । ४. प्राचीनमुद्रितप्रतौ ' तदा भावेनो...' इत्यशुद्धः पाठः । हस्तादर्शे तु 'तदभावैनो' इत्यशुद्धः पाठः । ५. प्राचीनमुद्रितप्रतौ णवभा (तो)नुष्ठानं' इत्यशुद्धः पाठः । For Private & Personal Use Only ।। ३५८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy