________________
E Es
तृण-गोमय-काष्ठाग्निकण-दीप'प्रभोपमा ।
रत्न-ताराऽर्क-चन्द्राऽऽभा क्रमेणेक्ष्वादिसन्निभा ।।२६।। तृणेति । (१) मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक्प्रयोगकालं यावदनवस्थानात् । अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः, विकलप्रयोगभावाद् भावतो वन्दनादिकार्याऽयोगादिति ।
(२) तारा दृष्टिोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात । अतोऽपि प्रयोगकाले स्मृतिपाटवाऽसिद्धेः, तदभावे प्रयोगवैकल्यात. तत तथातत्कार्याऽभावादिति ।
(३) बला दृष्टिः काष्ठाऽग्निकणतुल्या, ईषद्विशिष्टा उक्तबोधद्वयात्, तद्भावेनाऽत्र मनाक् स्थितिवीर्ये । अतः पटुप्राया स्मृतिः, इह प्रयोगसमये तद्भावे चाऽर्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति ।
(४) दीपा दृष्टिर्दीपप्रभासदृशी, विशिष्टतरा उक्तबोधत्रयात् । अतोऽत्रोदने स्थितिवीर्ये, तत्पद्व्यपि प्रयोगसमये स्मृतिः । ___ एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः ।
२०/२६
||३५७।।
१. मुद्रितप्रती '...दीप्रप्र..' इत्यशुद्धः पाठः । २. हस्तादर्श '...स्थानप्रकर्ष' इति पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org