________________
적
서
सामान्यदर्शनं इव (=समघाद्योघवृष्टिवत्)। 'यथा हि- एकस्मिन्नपि दृश्ये समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अमेघायां तु मनागधिकतरग्राहिणी । एवं समेघाऽमेघयोर्दिवसयोरप्यस्ति विशेषः । तथा सग्रहणग्रहयोश्चित्तविभ्रम-तदभावाभ्यामर्भकाऽनर्भकयोरपि मुग्धत्वविवेकाभ्यामुपहताऽनुपहतलोचनयोश्च दोष-गुणाभ्यां ग्राहकयोरपि। तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम् । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदाऽवबोधात् । ___ प्रवृत्तिरपि अमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताऽऽग्रहतया मैत्र्यादिपारतत्र्येण गम्भीरोदाराशयत्वाच्चारिचरकसंजीविन्यचरकचारणनीत्येत्याहुः ।।२४।।
सच्छ्रद्धासङ्गतो बोधो दृष्टिः सा चाऽष्टधोदिता ।
मित्रा तारा बला दीपा स्थिरा कान्ता प्रभा परा ।।२५।। ___सच्छ्रद्धेति । सच्छ्रद्धया शास्त्रबाह्याऽभिप्रायविकलसदूहलक्षणया सङ्गतो (=सच्छ्र. खासङ्गतः) बोधो दृष्टिः, तस्या उत्तरोत्तरगुणाऽऽधानद्वारा सत्प्रवृत्तिपदाऽऽवहत्वात् । तदुक्तं- “सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात् सत्प्रवृत्तिपदावहः ।।" (योगदृष्टि-१७) इति। सा चाष्टधोदिता मित्रा तारा बला दीप्रा स्थिरा ||३५६।। कान्ता प्रभा परा चेति ।।२५।।
२०/२५
१. मुद्रितप्रती 'तथा' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ '...घातस...' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org