________________
'F E
।। पराऽपराधनिवृत्तिहेतुतत्त्वज्ञानाऽनुगततया प्रतिष्ठितो भावः = अन्तःकरणपरिणामो हेतुः। ॥
तदुक्तं- “हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । 'प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः।।" (योगबिन्दु-४१८) इति । एवं = अकरणनियमोपपत्तौ वृत्तिक्षयौचिती = वृत्तिक्षयस्य न्याय्यता, हेत्वकरणनियमेन फलाऽनुत्पत्तिपर्यायोपपत्तेस्तत्प्रागऽभा वापगमस्याऽपि योग्यताविगमाऽऽख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात् तद्विरहितस्य तस्य फल-नियतत्वात् । तदुक्तं"मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यताऽपगमाद्दग्ध्वा ततः कल्याणमश्नुते ।।" (योगबिन्दु-४२३) इति ।।२३।। ___ननु यद्येक एव योगस्तदा कथं भेद: ? भेदे च प्रकृते किं तदन्तर्भावप्रयासेनेत्यत आह
योगे 'जिनोक्तेऽप्येकस्मिन् दृष्टिभेदः प्रवर्तते ।
क्षयोपशमवैचित्र्यात् समेघाद्योघदृष्टिवत् ।।२४।।
योग इति । 'जिनोक्ते = अर्हता सर्वज्ञेन प्रोक्ते तत्त्वत एकस्मिन्नपि योगे क्षयोपशम२०/२४||
वैचित्र्यात दृष्टिभेदो = दर्शनविशेषः प्रवर्तते । समेघादौ = मेघसहितराव्यादौ ओघदृष्टिवत १. मुद्रितप्रतौ हस्तप्रतौ च 'प्रधानं क...' इति पाठः । योगबिन्दुग्रन्थाऽनुसारेणाऽत्र 'प्रधानक...' इति पाठो योजितः। ||३५५।। २. मुद्रितप्रतौ 'प्राग्भावा...' इत्यशुद्धः पाठः ।। ३. मुद्रितप्रतौ 'तस्य' इति पदं नास्ति । ४. हस्तादर्श 'जिनेक्तेऽप्येकस्मिन्' इति पाठः त्रुटितः । ५. मुद्रितप्रतौ '(जिनेन) अर्ह...' इति पाठः प्रकल्प्य योजितः । ६. हस्ताद” 'एकेऽपि' इत्यशुद्धः पाठः । ७. हस्तादर्श 'प्रवन्नीता' इत्यशुद्धः पाठः ।
st
Jain Education Intemational
For Privale & Personal Use Only
www.jainelibrary.org