________________
।
FFE
फलीभूतात् सर्वतः = सर्वैः प्रकारैः पापगोचरः = पापविषयः अकरणनियमः अनुमीयते इति शेषः । नरकगमनादिवृत्तिनिवृत्तेर्महारम्भ-परिग्रहादिहेत्वकरणनियमेनैवोपपत्तेः ।।२१।।
ग्रन्थिभेदे यथाऽयं स्याद् बन्धहेतुं परं प्रति ।
नरकादिगतिष्वेवं ज्ञेयस्त तुगोचरः ।।२२।। ग्रन्थिभेद इति । यथाऽयं = अकरणनियमो बन्धहेतुं = मिथ्यात्वं परम् = उत्कृष्ट सप्ततिकोटिकोट्यादिस्थितिनिमित्तं प्रति = आश्रित्य ग्रन्थिभेदे (स्यात्=) निरूप्यते । ___एवं नरकादिगतिषु निवर्तनीयासु त तुगोचरो = नरकादिहेतुविषयोऽकरणनियमो ज्ञेयः ।।२२।।
दुःखात्यन्तविमुक्त्यादि नाऽन्यथा स्याच्छुतोदितम् ।
हेतुः सिद्धश्च भावोऽस्मिन्नेवं' वृत्तिक्षयौचिती ॥२३॥ दुःखेति । अन्यथा दुःखाऽत्यन्तविमुक्त्यादि श्रुतोदितं = सिद्धान्तप्रतिपादितं न स्यात् । तदाह-“अन्यथात्यन्तिको मृत्युभूयस्तत्राऽगतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् ।।” (योगबिन्दु-४१७) न च तत्त्वज्ञानेनैव दुःखाऽत्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यं, तस्याऽऽत्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे तद्धत्वकरणनियमस्या
ऽवश्याऽऽश्रयणीयत्वादिति भावः। अस्मिन = तत्तत्पापस्थानाऽकरणनियमे च सिद्धः = । १. मुद्रित-हस्तप्रतिषु ....स्मिन्निति' एवं पाठः । परं व्याख्यानुसारेण '...लेवं' इति पाठो युक्ततमः ।
२०/२३
||३५४॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org