SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ।। न चैतद्गाथाकर्तुः दिगम्बरत्वेन महर्षित्वाऽभिधानं न निरवद्यमिति मूढधिया शङ्कनीयं, || ।। सत्यार्थकथनगुणेन व्यासादीनामपि हरिभद्राचार्यैस्तथाभिधानादिति द्रष्टव्यम् ।।२०।। असम्प्रज्ञातनामा तु सम्मतो वृत्तिसङ्क्षयः । सर्वतोऽस्मादकरणनियमः पापगोचरः ॥२१॥ असम्प्रज्ञातेति । असम्प्रज्ञातनामा तु समाधिः वृत्तिसङ्क्षयः सम्मतः, 'सयोग्ययोगिकेवलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् । तदुक्तं- “असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः । निरुद्धाऽशेषवृत्त्यादितत्स्वरूपाऽनुवेधतः ।।” (योगबिन्दु-४२१) इति । 'धर्ममेघः' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ' धर्ममशुक्लकृष्णं मेहति = सिञ्चतीति व्युत्पत्तेः । तदुक्तं- "प्रसङ्ख्यानेप्यकुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति” (योगसूत्र ४-२९)। एवमन्येषामपि तत्तत्तन्त्रसिद्धानां शब्दानामर्थोऽत्र यथायोगं भावनीयः । तदाह- “धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः। सत्त्वानन्दः परश्चेति योज्योऽत्रैवाऽर्थयोगतः ।।” (योगबिन्दु-४२२) अस्माद् = वृत्तिसङ्क्षयात् २०/२१ १. हस्तादर्श 'सयोगिके...' इति त्रुटितोऽशुद्धः पाठः । २. हस्तादर्श 'तदुपमात्' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ।।३५३।। 'ऽपरैः' इत्यशुद्धः पाठः । ४. 'ख्यातो' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'संप्र....' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'भवशक्रशि' इत्यशुद्धः पाठः । योगबिन्दुग्रन्थानुसारेण योगविंशिकावृत्त्यनुसारेण च 'भवशत्रुः' इति पाठो योजितोऽस्माभिः । ७. मुद्रितप्रतौ हस्तप्रतौ च '...नन्दपर..' इति त्रुटितः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy