SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ गा व ता र द्वा त्रिं शि का २०/२० Jain Education International विषयस्य समापत्तिरुत्पत्तिर्भावसंज्ञिनः । आत्मनस्तु समापत्तिर्भावो द्रव्यस्य तात्त्विकः ।।१९।। विषयस्येति । विषयस्य = आत्माऽतिरिक्तस्य भाव्यस्य समापत्तिर्भावसंज्ञिनो भावाऽभिधानस्य उत्पत्तिः उच्यते । वदन्ति हि नयदक्षाः- “अग्न्युपयुक्तो माणवकोऽप्यग्निरेवेति”, शब्दाऽर्थप्रत्ययानां तुल्याऽभिधानत्वाद् न त्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणामः सम्भवति, चेतनत्वाऽचेतनत्वयोर्विरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य = परमात्मदलस्य तात्त्विकः सहजशुद्धो भावः = परिणामः ।। १९ ।। = = अत एव च योऽर्हन्तं स्वद्रव्य-गुण-पर्ययैः । वेदाऽऽत्मानं स एव स्वं वेदेत्युक्तं महर्षिभिः ।।२०।। = अत एव चेति । यत एव 'दलतया परमात्मैव जीवात्मा,' अत एव च योऽर्हन्तं तीर्थकरं स्वद्रव्य-गुण-पर्ययैः = निजशुद्धात्म-केवलज्ञान-स्वभावपरिणमनलक्षणैः वेद जानाति स एव स्वमात्मानं वेद तत्त्वतो जानाति तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वात् इति महर्षिभिरुक्तं । यतः पठ्यते- “जो जाणइ अरहन्ते दव्वत्तगुणत्त-पज्जयत्तेहिं । सो जाणइ अप्पाणं मोहो खलु जाइ तस्स लयं ।। " ( प्रवचनसार१/८० ) | १. हस्तादर्श 'च' नास्ति । = = For Private & Personal Use Only ।।३५२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy