SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ गा व ता र द्वा त्रिं शि का २०/२० Jain Education International विषयस्य समापत्तिरुत्पत्तिर्भावसंज्ञिनः । आत्मनस्तु समापत्तिर्भावो द्रव्यस्य तात्त्विकः ।।१९।। विषयस्येति । विषयस्य = आत्माऽतिरिक्तस्य भाव्यस्य समापत्तिर्भावसंज्ञिनो भावाऽभिधानस्य उत्पत्तिः उच्यते । वदन्ति हि नयदक्षाः- “अग्न्युपयुक्तो माणवकोऽप्यग्निरेवेति”, शब्दाऽर्थप्रत्ययानां तुल्याऽभिधानत्वाद् न त्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणामः सम्भवति, चेतनत्वाऽचेतनत्वयोर्विरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य = परमात्मदलस्य तात्त्विकः सहजशुद्धो भावः = परिणामः ।। १९ ।। = = अत एव च योऽर्हन्तं स्वद्रव्य-गुण-पर्ययैः । वेदाऽऽत्मानं स एव स्वं वेदेत्युक्तं महर्षिभिः ।।२०।। = अत एव चेति । यत एव 'दलतया परमात्मैव जीवात्मा,' अत एव च योऽर्हन्तं तीर्थकरं स्वद्रव्य-गुण-पर्ययैः = निजशुद्धात्म-केवलज्ञान-स्वभावपरिणमनलक्षणैः वेद जानाति स एव स्वमात्मानं वेद तत्त्वतो जानाति तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वात् इति महर्षिभिरुक्तं । यतः पठ्यते- “जो जाणइ अरहन्ते दव्वत्तगुणत्त-पज्जयत्तेहिं । सो जाणइ अप्पाणं मोहो खलु जाइ तस्स लयं ।। " ( प्रवचनसार१/८० ) | १. हस्तादर्श 'च' नास्ति । = = For Private & Personal Use Only ।।३५२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy