SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ बाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः । कायाऽधिष्ठायक-ध्येयाः प्रसिद्धा योगवाङ्मये ।।१७।। बाह्यात्मा चेति । कायः = स्वात्मधिया प्रतीयमानः 'अहं स्थूलोऽहं कृश' इत्याद्युल्लेखेन, अधिष्ठायकः = कायचेष्टाजनकप्रयत्नवान् ध्येयश्च ध्यानभाव्यः (=कायाधिष्ठायकध्येयाः)। एते त्रयो बाह्यात्मा चान्तरात्मा च परमात्मा चेति योगवाङ्मये = योगशास्त्रे प्रसिद्धाः। एतेषां च स्वेतरभेदप्रतियोगित्व-ध्यातृत्व-ध्येयत्वानोपयोगस्तात्त्विकाऽतात्त्विकैकत्वपरिणामतश्च सन्निधानमतात्त्विकपरिणामनिवृत्तौ तात्त्विकपरिणामोपलम्भश्च समापत्तिरिति ध्येयम् ।।१७।। अन्ये मिथ्यात्व-सम्यक्त्व-केवलज्ञानभागिनः । मिश्रे च क्षीणमोहे च विश्रान्तास्ते त्वयोगिनि ।।१८।। अन्य इति । अन्ये पुनराहुः- मिथ्यात्व-सम्यक्त्व-केवलज्ञानभागिनो = बाह्यात्माऽन्तरात्मपरमा-त्मानः ते तु मिश्रे च क्षीणमोहे चाऽयोगिनि च गुणस्थाने क्रमेण विश्रान्ताः। तत्र च बाह्यात्मताद-शायाम न्तरात्म-परमात्मनोः शक्तिस्तदेकद्रव्यत्वात् , अन्तरात्मदशायां च परमात्मनः शक्तिः बाह्यात्मनस्तु भूतपूर्वनयेन योगः, परमात्मतादशायां च बाह्यात्माऽन्तरात्मनोईयोरपि भूतपूर्वनयेनैव योग इति वदन्ति । तत्त्वमत्रत्यमध्यात्ममतपरीक्षायां व्यवस्थापितमस्माभिः ।।१८।। १. मुद्रितप्रतौ 'तात्त्विकैकत्व.....' इति त्रुटितः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । का २०/१८ ॥३५१॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy