SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ गा व ता र bhosda द्वा त्रिं शि का २०/१६ Jain Education International सम्प्रज्ञात' इति । अत्र = सम्प्रज्ञाताऽसम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति, स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारभ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः । यदाह योगबिन्दुकृत्- “समाधिरेष एवाऽन्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा । । ” ( योगबिन्दु ४१९ ) इति । एष एवाऽध्यात्मादियोगः । तात्त्विकी निरुपचरिता च समापत्तिरात्मनो भाव्यतां = भावनाविषयतां विना न घटते । शुद्धस्याऽभाव्यत्वे विशिष्टस्याऽपि तत्त्वाऽयोगात्, विशेषणसम्बन्धं विना वैशिष्ट्यस्याऽपि दुर्वचत्वाच्चेति । तथा च ग्रहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः । । १५ ।। परमात्मसमापत्तिर्जीवात्मनि हि युज्यते । = अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः ।। १६ ।। परमात्मेति । जीवात्मनि हि परमात्मसमापत्तिः तथापरिणामलक्षणा युज्यते अभेदेन तथा = परमात्मत्वेन ध्यानात् (= तथाध्यानात्) जीवात्मनोऽन्तरङ्गाया उपादानभूतायाः स्वशक्तितः तथापरिणमनात्मशक्तेः (= अन्तरङ्गस्वशक्तितः), शक्त्या सत एव व्यक्त्या परिणमनस्य तथा सामग्रीतः सम्भवादिति भावः ।। १६ ।। जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयति १. हस्तादर्शे 'संप्रज्ञाता' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ...णमना (दा) त्म...' इति भ्रामकः पाठः । ३. मुद्रितप्रतौ 'व्यक्ता (क्त्या ) ' इति पाठः । हस्तादर्शे 'एव्यक्त्या' इति त्रुटितः पाठः । For Private Personal Use Only ।।३५० ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy