________________
।। चित्तवृत्तीनां स्वकारणे प्रविलयात् (= तन्निरोधतः) संस्कारमात्रोदितवृत्तिलक्षणो असम्प्रज्ञा| तनामा समाधिः स्यात् । तदुक्तं- “तस्याऽपि निरोधे' सर्वनिरोधान्निर्बीजः समाधिरिति” (योगसूत्र १-५१) ।।१३।।
विरामप्रत्ययाऽभ्यासान्नेति नेति निरन्तरात् ।
ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते ।।१४।। विरामेति । विरामो = वितर्काऽऽदिचिन्तात्यागः स एव प्रत्ययो = विरामप्रत्ययः तस्य अभ्यासः = पौनःपुन्येन चेतसि निवेशनं, ततः (=विरामप्रत्ययाऽभ्यासात्) नेति नेति निरन्तराद् = अन्तररहितात संस्कारशेषात = उत्पन्नात ततः = असम्प्रज्ञातसमाधेः, यत उक्तं- “विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः३” (योगसूत्र १-१८) इति । कैवल्यं = आत्मनः स्वप्रतिष्ठत्वलक्षणं उपतिष्ठते = आविर्भवति ।।१४।। ____ तदेवमुक्तौ पराभिमतौ सभेदौ सोत्पत्तिक्रमौ च संप्रज्ञाताऽसंप्रज्ञाताऽऽख्यौ योगभेदौ ।
अथानयोर्यथासम्भवमवतारमाह२०/१५
सम्प्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः । तात्त्विकी च समापत्तिात्मनो भाव्यतां विना ।।१५।।
FFER
।।।३४९।।
॥ १. मुद्रितप्रती 'सर्व(वृत्ति)निरोधी नि(धान्नि)ीज.' इति पाठः ।। २. मुद्रितप्रतौ 'उत्पन्ना' इत्यशुद्धः पाठः । ॥ ३. हस्तप्रतौ ...शेषादन्य' इत्यशुद्धः पाठः । योगसूत्रानुसारेण शुद्धः पाठोऽत्र योजितः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org