________________
ऋतम्भरा ततः प्रज्ञा श्रुताऽनुमितितोऽधिका ।।१२।। अध्यात्ममिति । निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य वैशारद्ये प्रकृष्टाऽभ्यासवशेन नैर्मल्ये (=निर्विचारत्ववैशारद्ये) अध्यात्म = शुद्धसत्त्वं प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति । यदुक्तं- "निर्विचारत्ववैशारद्येऽध्यात्मप्रसादः" (योगसूत्र १-४७) । ___ ततः = अध्यात्मप्रसादात् ऋतम्भरा प्रज्ञा भवति। ऋतं सत्यमेव बिर्भति, न कदाचिदपि विपर्ययेणाऽऽच्छाद्यते या सा ऋतम्भरा । तदुक्तं- "ऋतम्भरा तत्र प्रज्ञा" (योगसूत्र १४८)। सा च श्रुतानुमितितः = आगमाऽनुमानाभ्यां सामान्यविषयाभ्यां •विशेषविषयत्वेन अधिका। यदाह- "श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषाऽर्थत्वादिति” (योगसूत्र १-४९)।।१२।।
तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः ।
असम्प्रज्ञातनामा स्यात् समाधिस्तन्निरोधतः ।।१३।। तज्जन्मेति। तत ऋतम्भराप्रज्ञाया जन्म = उत्पत्तिर्यस्य स तथा (=तज्जन्मा) तत्त्वसंस्कारः = परमार्थविषयः संस्कारः संस्कारान्तरस्य = स्वेतरस्य व्युत्थानजस्य समाधिजस्य वा संस्कारस्य बाधकः (=संस्कारान्तरबाधकः) तन्निष्ठकार्यकरणशक्तिभङ्गकृदिति यावत् । तदुक्तं- “तज्जः 'संस्कारोऽन्यसंस्कारप्रतिबन्धी” (योगसूत्र १-५०) । तस्य निरोधतः सर्वासां ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'संस्कारः संस्कार...' इत्यशुद्धः पाठः । योगसूत्रानुसारेण 'संस्कारोऽन्यसंस्कार....' इति शुद्धः पाठोऽस्माभियोजितः ।
२०/१३
॥३४८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org