SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 'FE इयं भवति । तथाहि- "महास्मृतिपरिशुद्धौ 'स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का" (योगसूत्र १४३) । यदाह- "उक्तलक्षणविपरीता निर्वितर्केति” (योगसूत्र १/४४) ।। ___ यथा च स्थूलभूतादिविषया सवितर्का तथा सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दाऽर्थविकल्पसहितत्वेन देशकालधर्माऽवच्छेदेन च गृहणन्ती सविचारा भण्यते धर्मिमात्रतया च तं गृह्णन्ती निर्विचारेति । यत उक्तं- “एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता” (यो.सू.१-४४)। सूक्ष्मविषयत्वं चाऽलिङ्गपर्यवसानं (यो.सू.१-४५) न क्वचिल्लीयते', न वा किंचिल्लिङ्गति गमयतीत्यलिंगं प्रधानं तत्पर्यन्तमित्यर्थः । गुणानां हि परिणामे चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिग लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमानं बुद्धिः, अलिङ्गं च प्रधानमिति। एताश्च समापत्तयः संप्रज्ञातरूपा एव । यदाह- "ता एव सबीजः समाधिरिति” (योगसूत्र १-४६) सह बीजेन = आलम्बनेन वर्तत इति सबीजः सम्प्रज्ञात इत्यर्थः ।।११।। इतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह अध्यात्म निर्विचारत्ववैशारद्ये प्रसीदति । १. मुद्रितप्रतौ 'स्वरूपशून्ये वार्थ...' इत्येवमस्थानच्छिन्नः पाठो भ्रमोत्पादकः । २. हस्तादर्श 'भणंति' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'तं' नास्ति । ४. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'द्विद्यते' इत्यशुद्धः पाठो विद्यते । परं राजमार्तण्डानुसारेणास्माभिः 'ल्लीयते' इति शुद्धः पाठः संयोजितः । २०/११ ३४७॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy