SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ BEEV तन्मयत्वात् । न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता । । तदुक्तं- "क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ-तदजनता समापत्तिः” (यो.सू.१४१) । यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात् तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तद्रूपतापत्तिः। ___यद्यपि ग्रहीतृ-ग्रहण-ग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः । यतः प्रथम ग्राह्यनिष्ठः समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवादिति बोध्यम् ।।१०।। सङ्कीर्णा सा च शब्दाऽर्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा ।।११।। सङ्कीर्णेति। सा च = समापत्तिः शब्दार्थज्ञानैः विकल्पतः अपि सङ्कीर्णा सवितर्का। यदाह-"(तत्र) शब्दार्थज्ञानविकल्पैः सङ्कीर्णा = सवितर्का (योगसूत्र १-४२)”। तत्र श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः, अर्थो 'जात्यादिः, ज्ञानं = सत्त्वप्रधाना बुद्धिवृत्तिः, विकल्पः = "शब्दज्ञानाऽनुपाती वस्तुशून्योऽर्थः, एतैः सङ्कीर्णा यत्रैते शब्दादयः परस्पराऽध्यासेन प्रतिभासन्ते-"गौरिति शब्दो 'गौरित्यर्थो गौरिति ज्ञानं" इत्याकारेण । इत्थं परैर्भेदैश्चतर्विधा १. हस्तादर्श .....त्वोत्कर्षे' इति पाठः । २. हस्तादर्श 'तत्र रूपा...' इति पाठः । ३. मुद्रितप्रतौ 'जात्यादिज्ञानं' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'शाब्द' इति पाठः । परं योगसूत्रानुसारेण 'शब्द' इत्येव । पाठः सम्यक् । ५. मुद्रितप्रतौ 'गोरि' इत्यशुद्धः पाठः । ६. हस्तादर्श 'परिभे...' इत्यशुद्धः पाठः । २०/११ ||३४६।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy