________________
सोऽहङ्कारः, यत्राऽन्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति ।।७।।
अत्रैव कृततोषा ये परमात्माऽनवेक्षिणः ।
चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् ॥८॥ अत्रैवेति । अत्रैव = सास्मितसमाधावेव ये कृततोषाः परमात्माऽनवेक्षिणः परमपुरुषाऽदर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते ।।८।।
ग्रहीतृग्रहणग्राह्यसमापत्तित्रयं किल ।
अत्र सास्मित-सानन्द-निर्विचारान्तविश्रमम् ।।९।। ग्रहीत्रिति। •सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातौ ग्रहीतृ समापत्तिः। सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः । निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः ।।९।।
मणेरिवाऽभिजातस्य क्षीणवृत्तेरसंशयम् ।
तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता ॥१०॥ मणेरिवेति। मणेरिव = स्फटिकादिरत्नस्येव अभिजातस्य = जात्यस्य क्षीणवृत्तेः ।।३४५।। = क्षीणमलस्य असंशयं = निश्चितं तात्स्थ्यात् = तत्रैकाग्रत्वात, तदञ्जनत्वाच्च = • • चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ 'तत्रेका...' इत्यशुद्धः पाठः ।
२०/१०
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org