SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ।। भाव्यते तदा भाव्यस्य = भावनाविषयस्य सुखस्य = सुखप्रकाशमयस्य सत्त्वस्योद्रेकाद्' । || = आधिक्यात् (=भाव्यसुखोद्रेकात्) चिच्छक्तेर्गुणभावतः = अनुद्रेकात् ।।५।। सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः । देहाऽहङ्कारविगमात् प्रधानमुपदर्शिनः ।।६।। ___सानन्द इति । सानन्दः समाधिर्भवत्युक्तहेतुतः । अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते देहाऽहङ्कारविगमाद् बहिर्विषयाऽऽवेशनिवृत्तेः "प्रधानमुपदर्शिनः = प्रधानपुरुषतत्त्वाविभावकाः ।।६।। सत्त्वं रजस्तमोलेशाऽनाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता ।।७।। सत्त्वमिति। यत्र रजस्तमोलेशेनाऽनाक्रान्तं (-रजस्तमोलेशाऽनाक्रान्तं) सत्त्वं भाव्यते, स सास्मितः समाधिः । अत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता, भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाच्चिति शक्तेश्च उद्रेकात । सत्तामात्रावशेषत्वाच्वात्र सास्मितत्वोपपत्तिः । न २०/७ चाहंकाराऽस्मितयोरभेदः शङकनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयं वेदयते ।।३४४।। १. हस्तादर्श ' क्रावि..' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘भण्यते' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'प्रधानपुमद....' इत्यशुद्धः पाठः । ४. हस्तादर्श 'प्रधानमुपदर्शिनः' इति पदं द्विरुक्तम् । ५. हस्तादर्श 'चित्तै' इत्यशुद्धः पाठः । ६. हस्तादर्श ...त्युल्लुखेन' इत्यशुद्धः पाठः ।। FF Est Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy