SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सवितर्को'ऽन्यथाऽपरः ॥३॥ पूर्वेति । पूर्वापरयोरर्थयोरनुसन्धानात् (=पूर्वाऽपराऽनुसन्धानात्) शब्दोल्लेखात् = शब्दार्थोपरागात् च यद्वा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेषु' अर्थेषु (=महाभूतेन्द्रियार्थेषु) स्थूलविषयेषु तदा सवितर्कः समाधिः । अन्यथा अस्मिन्नेवालम्बने पूर्वापराऽनुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायां अपरो निर्वितर्कः ।।३।। तन्मात्राऽन्तःकरणयोः सूक्ष्मयोर्भावना पुनः । दिक्कालधर्मावच्छेदात् सविचारोऽन्यथाऽपरः ।।४।। तन्मात्रेति । तन्मात्राऽन्तःकरणयोः सूक्ष्मयोः भाव्ययोः दिक्कालधर्माऽवच्छेदाद् = देशकालधर्माऽवच्छेदेन भावना पुनः सविचारः समाधिः । अन्यथा = तस्मिन्नेवाऽऽलम्बने देशकालधर्माऽवच्छेदं विना धर्मिमात्रावभासित्वेन भावनायां अपरो निर्विचारः ।।४।। यदा रजस्तमोलेशाऽनुविद्धं भाव्यते मनः । तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः ॥५॥ ___यदेति । यदा रजस्तमसोर्लेशेनाऽनुविद्धं (=रजस्तमोलेशाऽनुविद्धं) मनः = अन्तःकरणतत्त्वं १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'सविकल्पो' इति पाठः । परं व्याख्यानुसारेणाऽत्र 'सवितर्को' इत्येव पाठो ज्यायान् । २. हस्तादर्श 'लक्षणार्थे...' इति पाठान्तरम् । ३. हस्तादर्श 'धर्माविच्छेदाद् देश-काल' इति पाठः त्रुटितः । २०/५ ॥३४३॥ Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy