SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 'F Evsh ॥ अथ योगावतारद्वात्रिंशिका ।।२०।। अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति' व्यवतिष्ठत | इत्यतोऽयं निरूप्यते सम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते । सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥१॥ ___सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरो = असम्प्रज्ञातः चेति अन्यैः = पातञ्जलैः अयं = योगो द्विधेष्यते । सम्यक् = संशय-विपर्ययाऽनध्यवसायरहितत्वेन प्रज्ञायते = प्रकर्षण ज्ञायते भाव्यस्य स्वरूपं येन स सम्प्रज्ञात उच्यते ।।१।। 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः । भाव्यस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः ।।२।। वितर्केणेति । 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः क्रमेण युक्तः। भाव्यस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनलक्षणाया भेदात् (=भावनाभेदात्) सम्प्रज्ञातश्चतुर्विधो भवति । तदुक्तं-"वितर्क-विचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति (योगसूत्र १-१७)" ।।२।। १. हस्तादर्श ....वतारेऽवतिष्ठत' इति पाठः । २. हस्तादर्शान्तरे ‘स तिष्ठत' इति पाठः । ३. हस्तादर्श 'प्रज्ञा...' इति त्रुटितः पाठः । ४. त्रिषु हस्तादर्शेषु 'विकल्पेन' इति पाठः । २०/२ ।।३४२। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy