________________
तेषामेव प्रणामादिक्रियानियम इत्यलम् ।
क्रियाऽवञ्चकयोगः स्यान्महापापक्षयोदयः ॥३०॥ तेषामेवेति । तेषामेव = सतामेव प्रणामादिक्रियानियम' इत्यलं क्रियावञ्चकयोगः स्यात् । महापापक्षयस्य = नीचैर्गोत्रकर्मक्षयस्योदय = उत्पत्तिर्यस्मात् स (=महापापक्षयोदयः) तथा |॥३०॥
फलाऽवञ्चकयोगस्तु सद्भ्य एव नियोगतः ।
सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥३१॥ फलेति । फलावञ्चकयोगस्तु सद्भ्य एव अनन्तरोदितेभ्यो नियोगतो = अवश्यम्भावेन सानुबन्धस्योत्तरोत्तरवृद्धिमतः फलस्याऽवाप्तिः (=सानुबन्धफलावाप्तिः) तथा सदुपदेशादिना धर्मसिद्धौ विषये सतां मता ।।३१।।
इत्थं योगविवेकस्य विज्ञानाद् वान्तकल्मषः ।
यतमानो यथाशक्ति परमानन्दमश्नुते ॥३२॥ इत्थमिति । स्पष्टः ।।३२।।
॥ इति योगविवेकद्वात्रिंशिका ।।१९।। १. हस्तादर्श ....दिक्रियादिनियम' इति पाठः । २. मुद्रितप्रतौ '...तरवृत्तिमत' इति पाठः । ३. मुद्रितप्रती 'हीनकल्मष' इत्यशुद्धः पाठः ।
१९/३२
।।३४१।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org