SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ रहिता यमसेवा तु तृतीयो यम उच्यते ॥२७।। सदिति । सतो = विशिष्टस्य क्षयोपशमस्योत्कर्षात् = उद्रेकाद् (=सत्क्षयोपशमोत्कर्षात्) अतिचारादीनां चिन्तया (=अतिचारादिचिन्तया) रहिता तदभावस्यैव 'विनिश्चयात् । यमसेवा तु तृतीयो यमः = स्थिरयम उच्यते ।।२७।। परार्थसाधिका त्वेषा सिद्धिः शुद्धाऽन्तरात्मनः। अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते ॥२८।। परार्थेति। परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा = यमसेवा सिद्धिः। शुद्धः = क्षीणमलतया निर्मलोऽन्तरात्मा यस्य (=शुद्धान्तरात्मनः) अचिन्त्यायाः = अनिर्वचनीयायाः शक्तेः स्ववीर्योल्लासरूपाया योगेन (= अचिन्त्यशक्तियोगेन) चतुर्थो यम उच्यते ॥२८॥ सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । । तथादर्शनतो योग आद्याऽवञ्चक उच्यते ।।२९।। ___सद्भिरिति । सद्भिः = उत्तमैः कल्याणसम्पन्नैः = विशिष्टपुण्यवद्भिः दर्शनादपि = अवलोकनादपि पावनैः = पवित्रैः तथा = तेन प्रकारेण गुणवत्तयेत्यर्थः दर्शनतो योगः = सम्बन्ध आद्याऽवञ्चकः = सद्योगाऽवञ्चक उच्यते ।।२९।। १. हस्तादर्श 'निश्चयात्' इति पाठः । २. हस्तादर्श 'सिद्धि' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'इष्यते' इत्यशुद्धः पाठः मूलानुसारेण । १९/२९ |||३४० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy