SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ + 4 to योग-क्रिया-फलाख्यं च स्मर्यतेऽवञ्चकत्रयम् ॥२५॥ यमा इति । यमाश्चतुर्विधा इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमाश्च (=इच्छा-प्रवृत्ति-स्थैर्य-सिद्धयः) । अवञ्चकत्रयं च योग-क्रिया-फलाख्यं श्रूयते (=स्मर्यते) योगाऽवञ्चकः क्रियाऽवञ्चकः फलावञ्चकश्चेति ।।२५।। इच्छायमो यमेष्विच्छा युता तद्वत्कथामुदा । स प्रवृत्तियमो यत्तत्पालनं शमसंयुतम् ।।२६।। इच्छेति । तद्वतां = यमवतां कथातो या मुत् = प्रीतिस्तया (तद्वत्कथामुदा) युता = सहिता यमेष्विच्छा इच्छायम उच्यते । यत् तु तेषां यमानां पालनं (=तत्पालन) शमसंयुतं = 'उपशमाऽन्वितं स प्रवृत्तियमः । तत्पालनं चाऽत्राऽविकलमभिप्रेतं, तेन न कालादिविकलतत्पालनलक्षणे इच्छायमेऽतिव्याप्तिः । न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधसाधुचेष्टया प्रधान इच्छायम एव तात्त्विकपक्षपातस्याऽपि द्रव्यक्रियाऽतिशायित्वात् । तदुक्तं- “तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ।।” (योगदृष्टिसमुच्चय २२३) संविग्नपाक्षिकस्य प्रवृत्त-चक्रत्वाऽनुरोधेन तु प्रवृत्तियम एवाऽयं तस्य शास्त्रयोगाऽनियतत्वादिति नयभेदेन भावनीयम् ।।२६।।। सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । १. हस्तादर्श 'उपशमाश्चितं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ .... लनक्षणे' इत्येवमशुद्धः पाठः ।। १९/२६ ॥३३९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy