________________
वैयावृत्त्यं च विधिना तेष्वाशयविशेषतः ।।१४।। श्लाघनेति । श्लाघनादेः स्वकीया॑देर्याऽसती = असुन्दरा आशंसा = प्रार्थना तत्परिहारपुरस्सरं (= श्लाघनाद्यसदाशंसापरिहारपुरस्सर) वैयावृत्त्यं च व्यापृतभावलक्षणमाहारादिदानेन विधिना = सूत्रोक्तन्यायेन तेषु = भावयोगिष्वाचार्येषु आशयविशेषतः = चित्तोत्साहाऽतिशयात् योगबीजम् ।।१४।।
भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः ।
तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।।१५।। भवादिति । भवात् = संसारात् उद्विग्नता = इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा शुद्धो = निर्दोष औषधदानादेरभिग्रहः (=शुद्धौषधदानाद्यभिग्रहः), भावाऽभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य स्वाशयशुद्धस्याऽन्यस्यापि सम्भवात् । तथा सिद्धान्तं = आर्षवचनं आश्रित्य, न तु कामादिशास्त्राणि । विधिना = न्यायाऽऽतधनसत्प्रयोगादिलक्षणेन 'लेखनादि च योगबीजम् ।।१५।। लेखनादिकमेवाह
लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः ।
प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ।।१६।। १. हस्तादर्श ...वित्त्वतः' इत्यशुद्धः पाठः । २. हस्तादर्श .....वृत्त्ये' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्वाश्रय....' इत्यशुद्धः पाठः । ४. हस्तादर्श ..स्योपि' इत्यशुद्धा पाठः । ५. मुद्रितप्रतौ 'लेखनादिकं' इति पाठान्तरम् ।
२१/१६
।।।३७१॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org