SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ लेखनेति । लेखना सत्पुस्तकेषु । पूजना पुष्प-वस्त्रादिभिः । दानं पुस्तकादेः । श्रवणं व्याख्यानस्य । वाचना स्वयमेवाऽस्य । उद्ग्रहो = विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भव्येषु । अथ स्वाध्यायो = वाचनादिरस्यैव । •चिन्तना 'ग्रन्थार्थतोऽस्यैव । भावनेति च एतद्गोचरैव योगबीजम् ।।१६।। बीजश्रुतौ परा श्रद्धाऽन्तर्विश्रोतसिकाव्ययात् । तदुपादेयभावश्च फलौत्सुक्यं विनाऽधिकः ।।१७।। बीजेति । बीजश्रुतौ = योगबीजश्रवणे परा = उत्कृष्टा श्रद्धा 'इदमित्थमेव' इति प्रतिपत्तिरूपा अन्तर्विश्रोतसिकायाः = चित्ताशङ्काया व्ययात् (=अन्तर्विश्रोतसिकाव्ययात्)। तस्याः = बीजश्रुतेः उपादेयभावश्च = आदरपरिणामश्च (=तदुपादेयभावश्च) । फलौत्सुक्यं = अभ्युदयाऽऽशंसात्वरालक्षणं विना अधिकः = अतिशयितो योगबीजम् ।।१७।। निमित्तं सत्प्रणामादेर्भद्रमूर्तेरमुष्य च । शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः ॥१८॥ निमित्तमिति । अमुष्य च अनन्तरोदितलक्षणयोगिनो जीवस्य भद्रमूर्तेः = प्रियदर्शनस्य सत्प्रणामादेः योगबीजस्य निमित्तं शुभः = प्रशस्तः निमित्तसंयोगः = सद्योगादिसम्बन्धः १. मुद्रितप्रतौ 'ग्रंथार्थताऽस्यैव' इति पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । २. हस्तादर्श __'अन्त...' इत्यशुद्धः पाठः । २१/१८ ।।३७२।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy