________________
सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वाज्जायतेऽवञ्चकोदयाद्वक्ष्यमाणसमाधिविशेषोद|| यात्(मतः)।।१८।।
योग-क्रिया-फलाऽऽख्यं च साधुभ्योऽवञ्चकत्रयम् ।
श्रतः समाधिरव्यक्त इषलक्ष्यक्रियोपमः ॥१९॥ __ योगेति । साधुभ्यः = साधूनाश्रित्य योग-क्रिया-फलाऽऽख्यं' अवञ्चकत्रयं = योगाऽवञ्चकक्रियाऽवञ्चक-फलाऽवञ्चकलक्षणं अव्यक्तः समाधिः श्रुतः, तदधिकारे पाठात् । इषुलक्ष्यक्रियोपमः = शरशरव्यक्रियासदृशः । यथा शरस्य शरव्यक्रिया तदविसंवादिन्येव, अन्यथा तत्क्रियात्वाऽयोगात्, तथा सद्योगाऽवञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः
।।१९।। २१/२०
हेतुरत्राऽन्तरङ्गश्च तथाभावमलाल्पता ।
ज्योत्स्नादाविव रत्नादिमलाऽपगम उच्यते ॥२०॥ हेतुरिति । अत्र = सत्प्रणामादौ अन्तरङ्गश्च हेतुः तथाभावमलस्य कर्मसम्बन्धयोग्यतालक्षणस्याऽल्पता (=तथाभावमलाऽल्पता) । ज्योत्स्नादाविव = रत्नकान्त्यादाविव रत्नादिमलाऽपगम उच्यते । तत्र मृत्पुटपाकादीनामिवाऽत्र सद्योगादीनां निमित्तत्वेनैवोपयोगा१. हस्तादर्श ...फलख्यावंय..' इति पाठः । स चार्थतः शुद्धोऽपि मूलानुसारेणाऽशुद्धः । २. हस्तादर्श ‘शया' इत्यशुद्धः त्रुटितश्च पाठः । ३. हस्तादर्श 'सत्प्रण्य...' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'तथाभव...' इत्यशुद्धः पाठो मूलानुसारेण ।
॥३७३।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org