________________
।। दिति भावः ।।२०।।।
सत्सु सत्त्वधियं हन्त मले तीव्र लभेत कः ।
अगुल्या न स्पृशेत् पङ्गुः शाखां सुमहतस्तरोः ॥२१॥ सत्स्विति । सत्सु = साधुषु सत्त्वधियं = साधुत्वबुद्धिं हन्त तीव्र = प्रबले मले = कर्मबन्धयोग्यतालक्षणे सति को लभेत ? ततो "लाभशक्तेरयोगान्न कोऽपीत्यर्थः । अगुल्या पङ्गुः "सुमहतस्तरोः शाखां न स्पृशेत्, तत्प्राप्तिनिमित्तस्योच्चत्वस्याऽऽरोहशक्तेर्वाऽभावात्, तद्वत्प्रकृतेऽपि भावनीयम् ।।२१।।
वीक्ष्यते स्वल्परोगस्य चेष्टा चेष्टाऽर्थसिद्धये । २१/२२
___ स्वल्पकर्ममलस्याऽपि तथा प्रकृतकर्मणि ।।२२।। वीक्ष्यत इति । स्वल्परोगस्य = मन्दव्याधेः चेष्टा राजसेवादिप्रवृत्तिलक्षणा चेष्टा अर्थस्य कुटुम्बपालनादिलक्षणस्य सिद्धये = निष्पत्तये (= अर्थसिद्धये) "वीक्ष्यते । न तु तीव्ररोगस्येव प्रत्यपायाय । स्वल्पकर्ममलस्याऽपि पुंसः तथा प्रकृतकर्मणि योगबीजोपा
॥३७४।।
१. हस्तादर्श 'भावे' इत्यशुद्धः पाठः । २. हस्तादर्श 'सत्स्वैति' इत्यशुद्धः पाठः । ३. हस्तादर्श ' तालालक्षणे' इत्यशुद्धः पाठः । ४. हस्तादर्श 'शक्तेरको..' इति त्रुटितः पाठः । ५. हस्तादर्श 'सुमहस्त..' इति त्रुटितः पाठः। ६. हस्तादर्श 'तकृतेऽपि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'तप्रतुपि' इत्यशुद्धः पाठः । ७. हस्तादर्श .येक्ष्यते' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org