________________
दानलक्षणे । ईदृशस्यैव स्वप्रतिपन्ननिर्वाहक्षमत्वात् ।।२२।।
यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । ___ तत्त्वतोऽपूर्वमेवेदमपूर्वाऽऽसत्तितो विदुः ।।२३।। यथेति । यथाप्रवृत्तिकरणे चरमे = पर्यन्तवर्तिनि च ईदृशी = योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका स्थितिः = स्वभावव्यवस्था । अपूर्वस्य = अपूर्वकरणस्य आसत्तितः = सन्निधानात् (=अपूर्वाऽऽसत्तितः) 'फलव्यभिचारायोगात् इदं चरमं यथाप्रवृत्तकरणं तत्त्वतः = परमार्थतः । अपूर्वमेव विदुः = जानते योगविदः, यत उक्तं- "अपूर्वाऽऽसन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति' योगविदो विदुः” (योगदृष्टिसमुच्चय ३९) ।।२३ ।।
प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् । __ अन्वर्थयोजना नूनमस्यां तस्योपपद्यते ।।२४।। प्रवर्तते इति । यद् इह = जिनप्रवचने गुणस्थानपदं मिथ्यादृशि = मिथ्यादृष्टौ पुंसि प्रवर्तते = अस्खलवृत्ति प्रयोगविषयीभवति । तस्य = गुणस्थानपदस्य नूनं = निश्चितं अस्यां = मित्रायां दृष्टौ अन्वर्थयोजना = योगाऽर्थघटना उपपद्यते । सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्याऽस्यामेवोपपत्तेः । तदुक्तं हरिभद्रसूरिभिः- “प्रथमं यद्गुणस्थानं सामान्ये१ हस्तादर्श 'लयतिचारायोगात्' इत्यशुद्धः पाठः । २. हस्तादर्श .....पैदमिति' इत्यशुद्धः पाठः । ३. मुद्रितप्रती ....त्तियोग...' इत्यशुद्धः पाठः ।
२१/२४
॥३७५ ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org