SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ मि त्रा द्वा शि का २१/२७ Jain Education International नोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ।।” (यो.दृ.स.४०) इति ।।२४।। व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताऽव्यक्तधियोर्नु कः ।। २५ ।। व्यक्तेति । अन्यत्र = ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः (अपि) मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन इयं मित्रा' दृष्टिरेव उच्यते, व्यक्तत्वेन तत्राऽस्या एव ग्रहणात् । घ ती मले तु इति वितर्के व्यक्ताव्यक्तयोर्धियोः को विशेष: ? = = दुष्टाया नु धियो व्यक्ताया अव्यक्ताऽपेक्षया प्रत्युताऽतिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः । = विचित्रतया `नैगमस्य बहुभेदत्वात् तद्भेदविशेषाऽऽश्रयणेन वाऽन्यत्र तथाऽभिधानमिति परिभावनीयं सूरिभिः ।। २५ ।। `यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ॥ २६ ॥ उत्कर्षादपकर्षाच्च शुद्ध्यशुद्धयोरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां संप्रवर्तते ॥ २७ ॥ १. हस्तादर्श 'मिथ्या' इति पाठः । सः चिन्त्यः | २ मुद्रितप्रतौ 'निगम...' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'समसद्यो...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ स प्रवर्त...' इत्यशुद्धिः वर्तते । For Private & Personal Use Only ।।३७६ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy