________________
मि
त्रा
द्वा
शि
का
२१/२७
Jain Education International
नोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ।।” (यो.दृ.स.४०) इति ।।२४।। व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते ।
घने मले विशेषस्तु व्यक्ताऽव्यक्तधियोर्नु कः ।। २५ ।।
व्यक्तेति । अन्यत्र = ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः (अपि) मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन इयं मित्रा' दृष्टिरेव उच्यते, व्यक्तत्वेन तत्राऽस्या एव ग्रहणात् । घ ती मले तु इति वितर्के व्यक्ताव्यक्तयोर्धियोः को विशेष: ?
=
=
दुष्टाया
नु धियो व्यक्ताया अव्यक्ताऽपेक्षया प्रत्युताऽतिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः ।
=
विचित्रतया `नैगमस्य बहुभेदत्वात् तद्भेदविशेषाऽऽश्रयणेन वाऽन्यत्र तथाऽभिधानमिति परिभावनीयं सूरिभिः ।। २५ ।।
`यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ॥ २६ ॥ उत्कर्षादपकर्षाच्च शुद्ध्यशुद्धयोरयं गुणः ।
मित्रायामपुनर्बन्धात् कर्मणां संप्रवर्तते ॥ २७ ॥
१. हस्तादर्श 'मिथ्या' इति पाठः । सः चिन्त्यः | २ मुद्रितप्रतौ 'निगम...' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'समसद्यो...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ स प्रवर्त...' इत्यशुद्धिः वर्तते ।
For Private & Personal Use Only
।।३७६ ।।
www.jainelibrary.org